SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आगम (१६) “सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: CANADACCASCARSAAROCKS गोसेणं सत्तुस्सेहे समचउरंससंठाणसंठिए बनरिसहमारायसंघयणे जाव एवं वयासी' इति, तस्मिन् काले तस्मिन् समये, अंशब्दो वाक्यालङ्कारार्थः, श्रमणस्य भगवतो महावीरस्य ज्येष्ठ इति प्रथमः, अन्तेवासी शिष्यः, अनेनपदद्वयेन तस्य सकलसहाधिपतित्वमावेदयति, इन्द्रभूतिरिति मातापितृकृतनामधेयः, नामति प्राकृतत्वात् विभक्तिप-IA रिणामेन नाम्नेति द्रष्टव्यं, अन्तेवासी च किल विवक्षया श्रावकोऽपि स्यात् अतस्तदाशङ्काव्यवच्छेदार्थमाह-'अनगार न विद्यते अगार-गृहमस्येत्यनगार!, अयं च विगीतगोत्रोऽपि स्यादत आह-गौतमो गोत्रेण गौतमायगोत्रसमन्वित | इत्यर्थः, अयं च तरकालोचितदेहपरिमाणापेक्षया न्यूनाधिकदेहोऽपि स्यादत आह-सप्तोत्सेधः' सप्तहस्तप्रमाणशरीरोउड़ायः, अयं चेत्थंभूतो लक्षणहीनोऽपि सम्भाब्येत अतस्तदाशङ्कापनोदार्थमाह-समचतुरस्रसंस्थानसंस्थिता' समा:-शरीरलक्षणशास्त्रोक्तप्रमाणाधिसंवादिन्यश्चतम्रोऽनयो यस्य तत्समचतुरस्त्रं, अम्रयस्त्विह चतुर्दिगविभागोपलक्षिताः शरीरावयवा द्रष्टव्याः, अन्ये वाहुः-समा-अन्यूनाधिकाश्चतस्रोऽप्यनयो यत्र तत्समचतुरस्त्रं, अश्रयश्च पर्यङ्कासनोपविष्टस्य | जानुनोरन्तरं १ आसनस्य ललाटोपरिभागस्य चान्तरं २ दक्षिणस्कन्धस्य वामजानुनश्चान्तरं ३ वामस्कन्धस्य दक्षिणजानुनश्चान्तर ४ मिति, अपरे स्वाहुः-विस्तारोत्सेधयोः समत्वात् समचतुरनं, तच्च तत्संस्थानं च २ संस्थान-आकारस्तेन |संस्थितो-व्यवस्थितो यः स तथा, अयं च हीनसंहननोऽपि केनचित्सम्भाव्येत तत आह-बजरिसहनारायसंघयणे नाराचं-उभयतो मर्कटवन्धः ऋषभः-तदुपरिवेष्टनपट्टः कीलिका अस्थित्रयस्यापि भेदकमस्थि एवंरूपं संहननं यस्य स तथा, 'एवं जाव वयासी' इति, यावच्छन्दोपादानादिदमनुक्कमप्यवसेयं-कणगपुलगनिषसपम्हगोरे उग्गतवे दित्ततवे For P OW इन्द्रभूतिगौतमस्य वर्णनं ~17~
SR No.035021
Book TitleSavruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages610
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size132 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy