________________
आगम
(१६)
प्रत
सूत्रांक
[२३]
दीप
अनुक्रम
[३३]
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
----- प्राभृतप्राभृत [३],
मूलं [२३]
प्राभृत [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
न्मण्डलेषु चतुरशीतिं २ किश्चिन्यूनानि योजनानि उपरितनेषु तु मण्डलेष्वधिकानि अधिकतराणि उक्तप्रकारेण निर्वेष्टयन् २ तावदवसेयं यावत्सवबाह्यमण्डलमुपसङ्क्रम्य चारं चरति, 'ता जया णमित्यादि, तत्र यदा णमिति पूर्ववत् सर्व वाह्यमण्डलमुपसङ्क्रम्य चारं चरति तदा एकैकेन मुहूर्त्तेन पश्च पञ्च योजनसहस्राणि त्रीणि त्रीणि शतानि पञ्चदश च षष्टिभागान् योजनस्य ५३०५ गच्छति, तथाहि-अस्मिन् मण्डले परिश्यपरिमाणं त्रीणि योजनशतसहस्राणि अष्टादश सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि ३१८३१५ तत एतस्य प्रागुक्तयुक्तिवशात् षष्ट्या भागो हियते, ततो लब्धं यथोक्तमत्र मुहूर्त्तगतिपरिमाणमिति, अत्रैव दृष्टिपथप्रासतापरिमाणमाह-'तया णमित्यादि, तदा-सर्वबाह्यमण्डलचार| काले इहगतस्य मनुष्यस्य- जातावेकवचनमिगतानां मनुष्याणां एकत्रिंशता योजनसह सैरष्टभिरेकत्रिंशदधिकैर्योजनशतैस्त्रिंशता च षष्टिभागेर्योजनस्य ३१८३१३ सूर्यः शीघ्रं चक्षुःस्पर्शमागच्छति, तदा ह्यस्मिन् मण्डले चारं चरति सूर्ये द्वादशमुहूर्त्तप्रमाणो दिवसो भवति, दिवसस्य चार्जेन यावन्मात्रं क्षेत्रं व्याप्यते तावति व्यवस्थित उदयमानः सूर्य उपलभ्यते, द्वादशानां च मुहर्त्तानामर्द्धे षट् मुहूर्त्तास्ततो यदत्र मण्डले मुहूर्त्तगतिपरिमाणं पञ्च योजनसहस्राणि त्रीणि शतानि पञ्चोतराणि पञ्चदश च षष्टिभागा योजनस्य ५३०५ तत् षद्भिर्गुण्यते, ततो यथोक्तमन्त्र दृष्टिपथप्राप्तत्तापरिमाणं भवति, | अत्रापि दिवसरात्रप्रमाणमाह- 'तया णमित्यादि, सुगमम् । 'से पविसमाणे' इत्यादि, स सूर्यः सर्वबाह्यमण्डलादुप्रकारेणाभ्यन्तरं मण्डलं प्रविशन् द्वितीयं षण्मासमाददानो द्वितीयस्य षण्मासस्य प्रथमेऽहोरात्रे 'बाहिरानंतरं 'ति सर्वबाह्यान्मण्डलादनन्तरमर्वाक्तनं द्वितीयं मण्डलमुपसङ्क्रम्य चारं चरति 'ता जया ण मित्यादि तत्र यदा सर्वबाह्यानन्त
Education International
For Parts Only
~129~