________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [२], --------------------प्राभृतप्राभृत [३], ------------ ----- मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[२३]
नवतियोंजनसहस्राणि, तदा हि प्रागुक्तयुक्तिवशादष्टादशमुहूर्तप्रमाणं तापक्षेत्रं, एकैकेन च मुहूर्तेन गच्छति सूर्यः पञ्च पथ योजनसहस्राणि, ततः पञ्चानां योजनसहस्राणामष्टादशभिर्गुणनेन नवतिरेव योजनसहस्राणि भवन्ति, 'ता जया
मित्यादि, यदा सूर्यः सर्वबाह्यं मण्डलमुपसङ्कम्य चारं चरति तदा 'तं चेव राइंदियप्पमाण'मिति, तदेव प्रागुकं रात्रिंदिवप्रमाणं-रात्रिदिवसप्रमाणं वक्तव्यं, तद्यथा-"उत्तमकट्टपत्ता उक्कोसिया अटारसमुहुत्ता राई हवइ जहन्निए दुवालसमुहुत्ते दिवसे भवतीति, 'तस्सि च ण'मित्यादि, तस्मिन् सर्ववाह्यमण्डलगते सर्वजघन्ये द्वादशमुहूर्तप्रमाणे दिवसे तापक्षेत्रं प्रज्ञप्तं षष्टिोजनसहस्राणि ६००००, तदा ह्यनन्तरोक्तयुक्तिवशाद् द्वादशमुहूर्ध्वगम्यप्रमाणं तापक्षेत्रमै कैकेन च | मुहूसेन पञ्च पञ्च योजनसहस्राणि गच्छति ततः पञ्चानां योजनसहस्राणां द्वादशभिर्गुणने भवति षष्टियोजनसहस्राणि,| अत्रैवोपपत्तिलेशमाह-'तया णं पंच पंचे'त्यादि, तदा सर्वाभ्यन्तरमण्डलचारचरणकाले सर्वबाह्यमण्डलचारचरणकाले च पश्च पञ्च योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति, ततः सर्वाभ्यन्तरे सर्वबाह्ये च मण्डले यथोक्तमातपक्षेत्रप-14 रिमाणं भवति २,'तत्थे त्यादि, तत्र ये ते वादिन एवमाहुः-चत्वारि २ योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति। त एवं सूर्यतापक्षेत्रप्ररूपणां कुर्वन्ति-यदा सूर्यः सर्वाभ्यन्तरमण्डलमुपसङ्कम्य चारं चरति तदा दिवसरात्री तथैव-प्रागिव | वक्तव्ये, ते चैवम्-'तया णं उत्तमकट्ठपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे हवइ जहनिया दुवालसमुहुत्ता राई भवई'। इति, 'तस्सि च ण'मित्यादि, तस्मिंश्च सर्वाभ्यन्तरमण्डलगतेऽष्टादशमुहूर्तप्रमाणे दिवसे तापक्षेत्रं प्रज्ञप्तं द्विसप्ततियोंजनसहस्राणि ७२०००, तथा हि-एतेषां मतेन सूर्य एकैकेन मुहून चत्वारि २ योजनसहस्राणि गच्छति, सर्वाभ्यन्तरे च
दीप
अनुक्रम [३३]
For P
OW
aurwancharary.orm
~117~