________________
आगम
(१६)
प्रत
सूत्रांक
[२३]
दीप
अनुक्रम [३३]
----- प्राभृतप्राभृत [३],
मूलं [२३]
प्राभृत [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञ तिवृत्तिः ( मल० )
॥ ५३ ॥
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
पुरतस्तापक्षेत्रं तावत्पश्चादपि यत उदयमान इवास्तमयमानोऽपि सूर्यो दिवसस्यार्थेन यावन्मात्रं क्षेत्रं व्याप्नोति तावति २ व्यवस्थितश्चक्षुषोपलभ्यते, एतच्च प्रतिप्राणि सुप्रसिद्धं सर्वाभ्यन्तरे च मण्डले दिवसस्यार्द्धं नव मुहूर्त्तास्ततोऽष्टादशभिर्मुहर्यावन्मात्रं क्षेत्रं गम्यं तावत्प्रमाणं तापक्षेत्रं, एकैकेन मुहूर्त्तेन पट् षट् योजनसहस्राणि गम्यन्ते, ततः पण्णां योजनसहखाणामष्टादशभिर्गुणने भवत्येकं योजनशतसहस्रमष्टौ योजन सहस्राणीति, एवमुत्तरत्रापि तत्तन्मण्डलगतदिवसपरिमाणं प्रतिमुहूर्त्तगतिपरिमाणं च परिभाव्य तापक्षेत्रपरिमाणभावना भावनीया, यदा च सर्वबाह्यं मण्डलमुपसङ्क्रम्य चारं चरति तदा उत्तमकाष्ठाप्राप्ता अष्टादशमुहूर्त्ता रात्रिर्भवति सर्वजघन्यश्च द्वादशमुहर्त्ती दिवसः तस्मिंश्च दिवसे तापक्षेत्रपरिमाणं द्विसप्ततिर्योजन सहस्राणि ७२०००, तदा हि तापक्षेत्रं द्वादशमुह संगम्यप्रमाणं, अत्रार्थे च भावना प्रागुक्तानुसारेण स्वयं भावनीया, मुहर्त्तेन च षटू पटू योजन सहस्राणि गच्छति, ततः षण्णां योजनसहस्राणां द्वादशभिर्गुणने भवन्ति द्वासप्ततिरेव योजन सहस्राणीति, इमामेवोपपत्तिं लेशत आह- 'तेसि ण'मित्यादि, तेषां हि तीर्थान्तरीयाणां मतेन सूर्य: षटू पड् योजनसहस्राण्येकैकेन मुहूर्त्तेन गच्छति ततः सर्वाभ्यन्तरे सर्ववाये च मण्डले यथोक्तमेव तापक्षेत्रपरिमाणं भवतीति, तथा 'तस्थे'त्यादि, तत्र तेषां वादिनां मध्ये ये ते एवमाहुः पञ्च पञ्च योजनसहस्राणि सूर्य एकैकेन मुहूर्त्तेन गच्छति त एवमाहुः यदा सूर्यः सर्वाभ्यन्तरं मण्डलमुपसङ्क्रम्य चारं चरति 'तहेब दिवसराइप्यमाण' मिति अत्र प्रस्तावे दिवसरात्रप्रमाणं तथैव-प्रागिव द्रष्टव्यं, 'तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे हवश, जहन्निया दुवालसमुहुत्ता राई इति, 'तस्सि च ण' मित्यादि, तस्मिंश्च सर्वाभ्यन्तरमण्डलगतेऽष्टादशमुहूर्त्तप्रमाणे दिवसे तापक्षेत्रं-तापक्षेत्रपरिमाणं प्रज्ञप्तं
Education Intiation
For Parts Only
~116~
२ प्राभूते २ प्राभृतप्राभृर्त
॥ ५३ ॥