________________
आगम
(१६)
प्रत
सूत्रांक
[२१]
दीप
अनुक्रम [३१]
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
----- प्राभृतप्राभृत [१],
मूलं [२१]
प्राभृत [२], पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
दूर्ध्वं प्रातः सूर्यो देवतारूपस्तथाविधपुराणप्रसिद्धः पृथिवीकार्य - पृथिवी कायमध्ये उदयभूधरशिरसि उत्तिष्ठति - उत्पद्यते, स चोत्पन्नः सन्निमं मनुष्यलोकं तिर्यक्करोति, तिर्यक् परिभ्रमन्निमं मनुष्यलोकं प्रकाशयतीत्यर्थः, तिर्यकृत्वा पश्चिमे लोकान्ते सायं-साम्ध्ये समये सूर्यः पृथिवीकाये-अस्तमयभूधरशिरसि विध्वंसते- विध्वंसमुपयाति, एवं प्रतिदिवस सकलकालं जगत्स्थितिः परिभावनीया, अत्रोपसंहारः 'एगे एवमाहंसु' ४, एके पुनरेवमाहुः - पौरस्त्याहोकान्तादूर्ध्वं प्रातः सूर्यो देवतारूपः सदावस्थायी पृथ्वीकार्य - उदयभूधरशिरसि उत्तिष्ठति उद्गच्छति स चोङ्गतः सन्निमं प्रत्यक्षत उपलभ्यमानं तिर्यग्लोकं तिर्यकरोति, तिर्यक्कृत्वा पश्चिमे लोकान्ते सायं-सान्ध्ये समये पृथिवीकार्य - अस्तमयभूधरमनुप्रविशति, प्रविश्य चाधः प्रत्यागच्छति अधोभागवर्त्तिनं ठोकं प्रकाशयन् प्रतिनिवर्त्तते, ततः पुनरप्यवरभुवः अधोभुवः पृथिव्या अधोभागाद्विनिर्गत्येत्यर्थः, पौरस्त्यालोकान्तादूर्ध्वं प्रातः सूर्यः पृथिवीकाये-उदयभूधर शिरसि उत्तिष्ठति, एतेऽपि भूगोलवादिनः परं पूर्वे आकाशे उत्तिष्ठतीति प्रतिपन्नाः एते तु पर्वतशिरसीति शेषः, अत्रैवोपसंहारः 'एगे एवमाहंस' ५, एके | पुनरेवमाहुः - पौरस्त्या लोकान्तादूर्ध्वं प्रातः सूर्योऽकाये - पूर्व समुद्रे उत्तिष्ठति उत्पद्यते स चोत्पन्नः सन्निमं प्रत्यक्षत उपलभ्यमानं तिर्यग्लोकं तिर्यक्करोति, तिर्यक्कृत्वा पश्चिमे लोकान्ते सायं-सान्ध्ये समये सूर्योऽकाये - पश्चिमसमुद्रे विध्वंसमुपगच्छति, एवं सर्वदापि, अत्रोपसंहारः 'एंगे एवमाहंस' ६, एके पुनरेवमाहुः- पौरस्त्यालोकान्तादूर्ध्वं प्रातः सूर्यः सदावस्थायी पुराणशास्त्रप्रसिद्धोऽकाये - पूर्वसमुद्रे उत्तिष्ठति - उद्गच्छति, स चोद्गतः सन्निमं तिर्यग्लोकं तिर्यकरोति, तिर्यक् परिभ्रमन्निमं तिर्यग्लोकं प्रकाशयतीत्यर्थः, तिर्यक् कृत्वा पश्चिमे लोकान्ते सायं-सान्ध्ये समये सूर्योऽकार्य-पश्चिमसमुद्र
For Parts Only
~103~
war