________________
आगम
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं --------------- मूलं [३४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [३४९]
प्रज्ञापना- याः मल- यवृत्ती.
३६ समुघातपदं
॥६१०॥
३४९
गाथा
दीप
रीरा:-औदारिकादिशरीरविप्रमुक्ताः तेषां सिद्धत्वप्रथमसमये एव सर्वात्मना त्यक्तत्वात् , जीवधना-निचितीभूत- जीवप्रदेशरूपाः, सूक्ष्मक्रियाऽप्रतिपातिध्यानप्रतिपत्तिकाले एव तत्सामर्थ्यतो वदनोदरादि विवराणामापूरितत्वात् , दर्शनज्ञानोपयुक्ता जीवखाभाव्यात् , निष्ठितार्थाः कृतकृत्यत्वात् , नीरजसो बध्यमानकर्माभावात् , निरेजनाः कम्पक्रियानिमित्तविरहात्, वितिमिराः कर्मतिमिरवासनापगमात्, विशुद्धाविविधसम्यग्दर्शनादिमार्गप्रतिपत्त्या अत्यन्तशुद्धीभूतत्वात् , ते चेत्थंभूतास्तत्र गतास्तिष्ठन्ति शाश्वतं यथा भवत्येवं 'अनागताई' अनागता-भाविनी अद्धा समस्ता यत्र सोऽनागताद्धः ते कालं यावत् , अत्रैव मन्दमतिविबोधायाक्षेपपरिहारावाह-'से केण?णं भंते । इत्यादि सुगम, नवरं 'कम्मवीएसुति कर्मरूपाणि बीजानि-जन्मनः कारणानि कर्मवीजानि तेषु दग्धेषुनिर्मूलकाकषितेषु पुनरपि-भूयो जन्मन उत्पत्तिर्न भवति, कारणमन्तरेण कार्यासम्भवात् , अथ तान्येव कर्माणि भूयः कस्मान्न भवन्ति ?, उच्यते, रागादीनामभावात् , रागादयो सायुःप्रभृतीनां कर्मणां कारणं, न च ते तेषां सन्ति, प्रागेच क्षीणमोहावस्थायां क्षीणत्वात्, न च तेऽपि क्षीणा अपि भूयः प्रादुष्प्यन्ति, सहकारिकारणामावात् , रागादीनां धुत्पत्ती परिणामिकारणमात्मा सहकारिकारणं रागादिवेदनीयं कर्म, न चोभयकारणजन्यं कार्यमे कतरस्थाप्यभावे भवति, अन्यथा तस्याकारणत्वप्रसङ्गात्, न च सिद्धानां रागादिवेदनीय कर्मास्ति, तस्य प्रागेच शुक्लध्यानामिना भस्मीकृतत्वात्, न च वाच्यमत्रापि स एव प्रसङ्गः, यथा तदपि रागादिवेदनीयं कर्म भूयः कस्मान्न
अनुक्रम [६२१-६२२]
Beesce
SURESHIMonal
~327