________________
आगम
(१५)
प्रत
सूत्रांक
[२९२]
दीप
अनुक्रम [५३९]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:)
-
पदं [२३], -----------उद्देशक: [१], -------- दारं [-], [------
• मूलं [ २९२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापना
या मल 8 य० वृत्ती.
॥४६१॥
पायं ॥ २ ॥ " [ सुखप्रतिबोधा निद्रा दुःखप्रतिबोधा च निद्रानिद्रा च । प्रचला भवति स्थितस्य तु प्रचलाप्रचला च चङ्क्रमतः ॥ १ ॥ स्त्यानर्द्धिः पुनरतिसंक्लिष्टकर्मांणुवेदने भवति । महानिद्रा दिनचिन्तितव्यापारप्रसाधनी प्रायः ॥२॥ ] चक्षुर्दर्शनावरणं चक्षुः सामान्योपयोगावरणं, एवं शेषेष्वपि भावनीयं, 'जं वेयर' इत्यादि, यं वेदयते पुगलं मृदुशयनादिकं ' पुग्गले वा' इति यान् पुद्गलान् बहून् मृदुशयनीयादीन् वेदयते पुद्गलपरिणामं माहिषदध्याद्यभ्यवहृताहारपरिणाममित्यर्थः, 'बीससा पोग्गलाण परिणाम' मिति वर्षाखभ्रसम्भृतनभोरूपं धाराम्बुनिपातरूपं वा यं वेदयते तेन निद्रायुदयापेक्षया दर्शनपरिणत्युपघाते एतावता परत उक्तः, सम्प्रति खत उदयमाह - 'तेसिं वा उदरणं'ति तेषां वा दर्शनावरणीय कर्मपुद्गलानामुदयेन परिणतिविघातेन द्रष्टव्यं न पश्यति, तथा कश्चित् दर्शनपरिणामेन परिणन्तुमिच्छन्नपि जात्यन्धत्वादिना दर्शनपरिणत्युपघातान्न पश्यति, प्राग् दृष्ट्वापि पश्चान्न पश्यति, दर्शनावरणीय कर्मपुद्गलानामुदयात् किं बहुना १, दर्शनावरणीयस्य कर्मण उदयेन जीव उच्छन्नदर्शन्यपि यावच्छतिप्रच्छादितदर्शन्यपि भवति, 'एस णं गोयमा ! दरिसणावरणिजे कम्मे' इत्याद्युपसंहारवाक्यं । 'सायावेयणिज्जस्त णं भंते! कम्मस्स' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनमाह – गौतम ! अष्टविधोऽनुभावः प्रज्ञप्तः, अष्टविधत्वमेव दर्शयति'मणुन्ना सहा' इत्यादि, मनोज्ञाः शब्दा आगन्तुका वेणुवीणादिसम्बन्धिनः अन्ये आत्मीया इत्याहुस्तदयुक्तं, आत्मीयशब्दानां वाक्सुखेनेत्यनेनैव गृहीतत्वात्, मनोज्ञा रसा-इक्षुरसप्रभृतयः, मनोज्ञा गन्धाः - कर्पूरादिसम्बन्धिनः,
Education Internation
For Parts Only
~29~
२३ कर्मग्र
कृतिपदे कर्मानुभावः सू. २९२
॥४६१॥