________________
आगम
(१५)
प्रत
सूत्रांक
[२९२]
दीप
अनुक्रम [५३९ ]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:)
-
पदं [२३], -------------- • उद्देशक: [१], ------------- दारं [-], [----
• मूलं [ २९२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
मनोज्ञानि रूपाणि-खगत स्वस्त्रीगत चित्रादिगतानि मनोज्ञाः स्पर्शा- हंसतूल्यादिगता 'मणोसुहया' इति मनसि सुखं यस्यासौ मनःसुखस्तस्य भावो मनःसुखता, सुखितं मन इत्यर्थः, वाचि सुखं यस्यासौ वाक्सुखस्तस्य भावो वाक्सुखता, सर्वेषां श्रोत्रमनः प्रल्हादकारिणी वागिति तात्पर्यार्थः, काये सुखं यस्यासौ कायसुखस्तद्भावः कायमुखता, सुखितः काय इत्यर्थः, एते चाष्टौ पदार्थाः सातावेदनीयस्योदयेन प्राणिनामुपतिष्ठन्ते तत उक्तोऽष्टविधः सातवेदनीयस्यानुभावः परतः सातावेदनीयस्योदयमुपदर्शयति- 'जं वेएइ पुग्गल' मित्यादि, यद्वेदयते पुद्गलं स्रक्चन्दनादि यान् वेदयते पुद्गलान् बहून् सक्चन्दनादीन् यं वा वेदयते पुद्गलपरिणामं देशकालययोऽवस्थानुरूपाहारपरिणामं, 'वीससा वा पुग्गलाण परिणामं विस्रसया वा यं पुद्गलानां परिणामं कालेऽभिलषितं शीतोष्णादिवेदनाप्रतीकाररूपं तेन मनसः समाधानसम्पादनात् सातावेदनीयं कर्मानुभवति, सातवेदनीयकर्मफलं सातं वेदयते इत्यर्थः, उक्तः परत उदयः सम्प्रति खत उदयमाह-'तेसिं या उदरणं'ति तेषां वा सातावेदनीय कर्म पुद्गलानामुदयेन मनोज्ञशब्दादिव्यतिरेकेणापि कदाचित् सुखं वेदयते, यथा नैरयिकास्तीर्थकरजन्मादिकाले 'एस णं गोयमा !' इत्याद्युपसंहारवाक्यं, 'असायावेयणिजस्स णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, निर्वचनं पूर्ववत्, तथा चाह- 'तहेव पुच्छा उत्तरं च' नवरमित्यादिना पूर्वसूत्रादस्य विशेषमुपदर्शयति, 'अमणुण्णा सद्दा' इत्यादि, अमनोज्ञाः शब्दाः - खरोष्ट्राश्वादिसम्वन्धिन आगन्तुका अमनोज्ञा रसाः - स्वस्याप्रतिभासिनो दुःखजनकाः अमनोज्ञा गन्धा - गोमहिषादिमृतकडेवरा
Ja Eucation intention
For Parts Only
~30~