________________
आगम
(१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: -,------------- दारं --------------- मूलं [३३०...] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
अथ षट्त्रिंशत्तमं समुद्घाताख्यं पदं ॥ ३६ ॥
प्रत
सूत्रांक
[३३०...]
गाथा
तदेवं व्याख्यातं पञ्चत्रिंशत्तमं पदं, सम्प्रति पत्रिंशत्तममारभ्यते, तस्य चायमभिसम्बन्धः-इहानन्तरपदे गतिपरिणामविशेपो वेदना प्रतिपादिता, इहापि गतिपरिणामविशेष एव समुद्घातश्चिन्त्यते, तत्र समुद्घातवक्तव्यताविषये इयमादौ सङ्ग्रहणिगाथावेयणकसायमरणे वेउवियतेयए य आहारे । केवलिए चेव मवे जीवमणुस्साण सत्तेव ॥१॥ 'वेयणे त्यादि, इह समुदूघाताः सप्त भयन्ति, तद्यथा-'यणकसायमरणे' इति, वेदनं कपायाश्च मरणं च वेदनकषायमरणं समाहारो द्वन्द्वस्तस्मिन् विषये त्रयः समुद्घाता भवन्ति, तद्यथा-वेदनासमुदूपातः कषायसमुद्घातो मरणसमुद्घातच, 'बेउविय'त्ति वैक्रियविषयश्चतुर्थः समुद्घातः, तेजसः पञ्चमः समुद्घातः, षष्ठ आहार इतिआहारकशरीरविषयः, सप्तमः केवलिकः-केवलिषु भवति, 'जीवमणुस्साण सत्तेवत्ति सामान्यतो जीवचिन्तायां मनुष्यद्वारचिन्तायां सप्तैव-सप्तपरिमाणाः समुद्घाता वक्तव्याः, न न्यूनाः, ससानामपि तत्र सम्भवात् , 'सत्तेवत्ति एवकारोऽत्र परिमाणे, वर्तते च परिमाणे एवशब्दः, यदाह शाकटायनन्यासकृत्-'एवोऽवधारणपृथक्त्वपरिमाणे
दीप
अनुक्रम [५९९]
अथ पद (३६) “समुद्घात:" आरब्धम्
~224~