SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [ ३३०...] ཎྜནྡྲིཝཱ ཏྠ , [५९९] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:) पदं [३६], ----- - FÈRT: (-), ------------- GT (-), -------------- मूलं [ ३३०...] + गाथा पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापनायाः मलय० वृत्ती. ॥५५९॥ Eucation In ष्यिति, शेषद्वारचिन्तायां तु यथासम्भवं वाच्याः, ते चाग्रे स्वयमेव सूत्रकृताऽभिधास्यन्ते इत्येष सङ्ग्रहणिगाथासङ्केपार्थः । अथ समुद्घात इति कः शब्दार्थः १, उच्यते, समित्येकीभावे उत्प्राबल्ये, एकीभावेन प्राबल्येन घातः समुद्घातः, केन सह एकीभावगमनमिति चेत्, उच्यते, अर्थाद्वेदनादिभिः तथाहि - यदाऽऽत्मा वेदनादिसमुद्घात गतो भवति तदा वेदनाद्यनुभवज्ञानपरिणत एव भवति, नान्यज्ञान परिणतः, प्राबल्येन कथं घात इति चेत्, उ उच्यते, इह वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभव योग्यानुदीरणा करणेना कृष्योदयावलिकायां प्रक्षिप्यानुभूय च निर्जरयति, आत्मप्रदेशैस्सह सक्लिष्टान् सातयतीति भावः, 'पुत्रकयकम्मसाडणं निजरा' [ पूर्वकृतकर्मशाटनं तु निर्जरा ] इति वचनात्, तथाहि — वेदनासमुद्घातोऽसद्वेद्यकर्माश्रयः, कपायसमुद्रघातः कषायाख्यचारित्रमोहनीय कर्माश्रयः, मारणान्तिकसमुद्घातः अन्तर्मुहूर्त्तशेषायुःकर्माश्रयः, वैकुर्वि कतैजसाहारकसमुद्घाता यथाक्रमं वैक्रियशरीरतैजसशरीराहारकशरीरनामकर्माश्रयाः, केवलिसमुद्घातः सदसद्वेद्य शुभाशुभनामोचनीचैर्गोत्रकर्माश्रयः, तत्र वेदनासमुद्घातगत आत्मा असातावेदनीयकर्मपुद्गलपरिशातं करोति, तथाहिवेदनापीडितो जीवः स्वप्रदेशाननन्तानन्तकर्मस्कन्ध वेष्टितान् शरीराद्वहिरपि विक्षिपति, तैश्च प्रदेशैर्वदनजठरादिरन्धाणि कर्णस्कन्धाद्यपान्तरालानि चापूर्यायामतो विस्तरतश्च शरीरमात्रं क्षेत्रमभिव्याप्यान्तर्मुहूर्त्त यावदवतिष्ठते, तस्मिंचान्तर्मुहूर्त्ते प्रभूतासातावेदनीयकर्मपुद्गलपरिशातं करोति, कषायसमुद्घातसमुद्धतः कषायाख्यचारित्रमोहनीयकर्म For Parts Only ~225~ ३६ समु द्यातपदं सू. ३३० 1144811 nary org
SR No.035020
Book TitleSavruttik Aagam Sootraani 1 Part 20 Pragyapana Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy