________________
आगम (१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३१], --------------उद्देशक: -, ------------- दारं -1, -------------- मूलं [३१५] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [३१५]
गाथा
षयः, केवली हि यद्यपि मनोद्रव्यसम्बन्धभाक् तथापि न तैरसौ भूतभवद्भाविभावखभावपर्यालोचनं करोति, किन्तु क्षीणसकलज्ञानदर्शनावरणत्वात् पर्यालोचनमन्तरेणैव केवलज्ञानेन केवलदर्शनेन च साक्षात्समस्तं जानाति पश्यति च, ततो न संज्ञी नाप्यसंज्ञी, सकलकालकलाकलापव्यवच्छिन्नसमस्तद्रव्यपर्यायप्रपञ्चसाक्षात्करणप्रवणज्ञानसमन्वितत्वात् , सिद्धोऽपि न संज्ञी, द्रव्यमनसोऽप्यभावात् , नाप्यसंज्ञी सर्वज्ञत्वात् , तदेवं सामान्यतो. जीवपदे संजिनोऽसंज्ञिनो नो-IN संजिनोअसंज्ञिनच लभ्यन्ते इति, भगवान तथैव प्रतिसमाधानमाह-गौतमे'स्वादि, जीवाः संजिनोऽपि नैरपिकादीनां संज्ञिनां भावाद्, असंज्ञिनोऽपि पृथिव्यादीनामसंज्ञिना भावात्, नोसंज्ञिनोअसंज्ञिनोऽपि सिद्धकेवलिनां नोसंज्ञिनोअसंज्ञिनामपि भावात् । एतानेव चतुर्विंशतिदण्डकक्रमेण चिन्तयति-'नेरइया ण'मित्यादि, इह ये नैरयिकाः संज्ञिभ्य उत्पद्यन्ते ते संज्ञिनो व्यवद्रियन्ते इतरे त्वसंज्ञिनः, न च नैरयिकाणां केवलिभावो घटते, चारित्रप्रतिपत्तेरभावात् , तत उक्तं नैरयिकाः संज्ञिनोऽप्यसंजिनोऽपि, नो नोसंज्ञिनोनोअसंज्ञिनः, एवमसुरकुमारादयोऽपि स्तनितकुमारपर्यवसाना भवनपतयो वक्तव्याः, तेषामप्यसंज्ञिनोऽप्युत्पादात् केवलित्वाभावाच, 'मणूसा जहा जीवत्ति मनुष्याः प्राक् यथा जीवा उक्तास्तथा वक्तव्याः, संज्ञिनोऽपि असंजिनोऽपि नोसंझिनोअसंझिनोऽपि वक्तव्या इति भावः, तत्र ये गर्भव्युत्क्रान्तास्ते संज्ञिनः सम्मूछिमा असंजिनः केवलिनो नोसंज्ञिनोअसंजिनः, 'पञ्चेन्दियतिरिक्खजोणियवाणमंतरा जहा नेरइया' इति, पञ्चेन्द्रियतिर्यग्योनिका व्यन्तराश्च यथा नैरयिका उक्तास्तथा वक्तव्याः,
दीप अनुक्रम
[१७५
-५७६]
~174~