________________
आगम
(१५)
प्रत
सूत्रांक
[३१५]
गाथा
दीप
अनुक्रम
[५७५
-५७६]
पदं [३१],
मूलं [ ३१५] + गाथा
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापनायाः मल
य० वृसौ.
॥५३४॥
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:)
• उद्देशक: [-], ---------- , दारं [-], [---------
A A A A A A A A A A
संज्ञिनोऽपि असंज्ञिनोऽपि नो नोसंज्ञिनोअसंज्ञिनः वक्तव्या इति भावः तत्र पञ्चेन्द्रिय तिर्यग्योनिकाः सम्मूच्छिमाः असंज्ञिनः गर्भव्युत्क्रान्ताः संज्ञिनः, व्यन्तरा असंज्ञिभ्य उत्पन्ना असंज्ञिनः संज्ञिभ्य उत्पन्नाः संज्ञिनः, उभयेऽपि चारित्रप्रतिपत्तेरभावात् नो नोसंज्ञिनोअसंज्ञिनः, ज्योतिष्कवैमानिकाः संज्ञिन एव, नो असंज्ञिनः, असंज्ञिभ्य उत्पादाभावात् नो नोसंज्ञिनोअसंज्ञिनवारित्रप्रतिपत्तेरभावात्, सिद्धास्तु प्रागुक्तयुक्तितो नो संज्ञिनो नाप्यसंज्ञिनः किन्तु नोसंज्ञिनोअसंज्ञिनः, अत्रैव सुखप्रतिपत्तये सङ्ग्रहणिगाथामाह – 'नेरइय' इत्यादि, नैरयिकाः 'तिरिय'त्ति तिर्यक्पञ्चेन्द्रिया मनुष्या वनचरा-व्यन्तरा असुरादयः- समस्ता भवनपतयः प्रत्येकं संज्ञिनोऽसंज्ञिनश्च वक्तव्याः, एतचानन्तरमेव भावितं, विकलेन्द्रिया-एकद्वित्रिचतुरिन्द्रिया असंज्ञिनो ज्योतिष्कवैमानिकाः संज्ञिन इति ॥ इति श्रीमलयगिरिविरचितायां प्र० एकत्रिंशत्तमं पदं समाप्तम् ॥ ३१ ॥
अथ द्वात्रिंशत्तमं संयमयोगाख्यं पदं ॥ ३२ ॥
तदेवमुक्तमेकत्रिंशत्तमं पदं, अधुना द्वात्रिंशत्तमं पदमारभ्यते, तस्य चायमभिसम्बन्धः - इहानन्तरपदे संज्ञिपरिणा
| अत्र पद (३१) " संज्ञी” परिसमाप्तम्
For Pasta Use Only
अथ पद (३२) "संयत" आरब्धम्
~175~
३१संज्ञापदं सू.
३१५
॥५३४॥