SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [१], ------------- दारं [-], -------------- मूलं [२८८-२८९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५Jउपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: सूत्रांक [२८८ -२८९] तथापि पङ्कजादिशब्दवत् वेदनीयशब्दस्य रूढिविषयत्वात् सातासातरूपमेव कर्म वेदनीयमित्युच्यते, न शेष, तथा मोहयति-सदसद्विवेकविकलं करोति आत्मानमिति मोहनीयं, अत्र बहुलवचनात् कर्य्यनीयः, तथा एतिIN आगच्छति प्रतिवन्धकतां खकृतकर्मबद्धनरकादिकुगतेर्निष्क्रमितुमनसो जन्तोरित्यायुः, अथवा आ समन्तादेति गच्छति भवाद् भवान्तरसान्तो विपाकोदयमित्यायुः, उभयत्राप्यौणादिक उसप्रत्ययः, तथा नामयति-पत्यादि-12 पर्यायानभवनं प्रति प्रवणयति जीवमिति नाम, तथा गूयते-शब्द्यते उच्चावचैः शब्दयेत् तद् गोत्रं-उच्चनीचकलोत्पत्तिलक्षणः पर्यायविशेषः तद्विपाकवेद्यं कर्मापि गोत्रं, कार्ये कारणोपचारात्, यद्वा कर्मणोऽपादानविवक्षा गूयते-शच्यते उच्चावचैः शब्दैरात्मा यस्मात् कर्मणः उदयाद् गोत्रं, तथा जीवं दानादिकं चान्तरा व्यवधानापादनाय एति-गच्छत्यन्तरायं, जीवस्य दानादि कर्तुमुद्यतस्य विघातकृद् भवतीत्यर्थः, अत्राह-नन्वित्थं ज्ञानावरणीयाद्युपन्यासे किश्चिदस्ति प्रयोजनमुत यथाकथञ्चिदेव प्रवृत्तिरिति ?, अस्तीति बूमः, किं तदिति चेत्, उच्यते, इह ज्ञानं दर्शनं च जीवस्य खतत्त्वभूतं, तदभावे जीवत्वस्यैवाभावात् , चेतनालक्षणो हि जीवस्ततः स कथं ज्ञानदर्शनाभावे भवेत् ?, ज्ञानदर्शनयोरपि च मध्ये प्रधानं ज्ञानं, तशादेव सकलशास्त्रादिविषयविचारसन्ततिप्रवृत्तेः, अपिच-सर्वा अपि लब्धयो जीवस्य साकारोपयोगोपयुक्तस्योपजायन्ते, न दर्शनोपयोगोपयुक्तस्य, 'सघाओ लद्धीओ सागरोवउत्तस्स नो अणागारोवओगोवउत्तस्से' [सर्वा लब्धयः साकारोपयोगोपयुक्तस्य नानाकारोपयोगोपयुक्तस्य] serceaeseseseseeयरब्रा गाथा दीप अनुक्रम [५३४-५३६]] ~14~
SR No.035020
Book TitleSavruttik Aagam Sootraani 1 Part 20 Pragyapana Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy