SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१५७ -१५८] गाथा: दीप अनुक्रम [३६४ -३७१] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) पदं [१०], ------------- उद्देशकः [ - ], ----------- दारं [-], मूलं [ १५७ - १५८] + गाथा: (१-५) पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः स्थापना - | सर्वसंकलनया पविंशतिः । अत्र निर्वचनमाह - 'परमाणुपोग्गले नो परमे' इत्यादि, परमाणुपुद्गलश्रमो न भवति, चरमत्वं सन्यापेक्षं, न चान्यदपेक्षणीयमस्ति तस्य, अविवक्षणात्, न च सांशः परमाणुर्येनांशापेक्षया चरमत्वं प्रकल्प्येत, निरवयवत्वात् (तस्य), तस्मान्न चरमो, नाप्यचरमः, निरवयवतया मध्यत्वायोगात् किन्त्ववक्तव्यः, चरमाचरमव्यपदेशकारण [तः] शून्यतया चरमशब्देनाचरमशब्देन वा व्यपदेष्टुमशक्यत्वात्, वकुं शक्यं हि वक्तव्यं, यत्तु चरमशब्देन अचरमशब्देन वा स्वस्खनिमित्तशून्यतया वक्तुमशक्यं तदवक्तव्यमिति स्थापना- । शेषास्तु भङ्गाः | प्रतिषेध्याः, परमाणौ तेषामसंभवात्, वक्ष्यति च - "परमाणुमि य तहओ" अस्थायमर्थः - परमाणौ - परमाणुचिन्तायां तृतीयो भङ्गः परिप्रायः, शेषास्तु निरवयवत्वेन प्रतिषेध्याः । 'दुपएसिए णं भंते !' इत्यादि प्रश्नसूत्रं प्राग्वत्, | निर्वचनमाह - 'सिय चरमे नो अचरमे सिय अवत्तधए' इत्यादि, द्विप्रदेशिकः स्कन्धः स्यात् कदाचित् चरमः, कथमिति चेत्, उच्यते, इह यदा द्विप्रदेशिकः स्कन्धो द्वयोराकाशप्रदेशयोरवगाढो भवति समश्रेण्या व्यवस्थिततया, | स्थापना - तदा एकोऽपि परमाणुरपरपरमाण्यपेक्षया चरमः, अपरोऽप्यपरपरमाण्यपेक्षया चरम इति चरमः, अचरमस्तु न भवति, सर्वद्रव्याणामपि केवलाचरमत्वस्यायोगात्, यदा तु स एव द्विप्रदेशिकः स्कन्धः एकस्मिन्नाकाशप्रदेशे अवगाहते तदा स तथाविधैकत्वपरिणामपरिणततया परमाणुवत् चरमाचरमव्यपदेशकारणशून्यत्वान्न चरमशब्देन व्यपदेष्टुं शक्यते नाप्यचरमशब्देनेति अवक्तव्यः, शेषास्तु भङ्गाः प्रतिषेध्याः, तथा च वक्ष्यति “पढमो Education Internation For Parts Only ~73~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy