________________
आगम
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [८], --------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [१४७-१४८]
(१५)
प्रत सूत्रांक
।
[१४७
-१४८]
तिपत्तये स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्य व्याख्याताः, एकेन्द्रियाणां त्वेता अव्यक्तरूपा अवगन्तव्याः, नैरयिकसूत्रे 'ओसन्नकारणं पडुप भयसन्नोवउत्ता' इति, तत्रोत्सन्नशब्देन बाहुल्यमुच्यते कारणशब्देन च बाखं कारणं, ततोऽयमर्थःबायकारणमाश्रित्य नैरयिका बाहुल्येन भयसन्जोपयुक्ताः, तथाहि-सन्ति तेषां सर्वतः प्रभूतानि परमाधार्मिकाय:कवल्लीशक्तिकुन्तादीनि भयोत्पादकादीनि, 'संतइभावं पडुच' इति इहानन्तरोऽनुभवभावः सन्ततिभाव उच्यते, तत आन्तरमनुभवभावमपेक्ष्य नैरयिका आहारसजोपयुक्ता अपि यावत्परिग्रहसज्ञोपयुक्ता अपि । अस्पबदुत्वचिन्तायां सर्वस्तोका मैथुनसंज्ञोपयुक्ताः, नैरयिका हि चक्षुर्निमीलनमात्रमपि न मुखिनः केवलमनवरतमतिप्रबलदुःखाग्निना संतप्यमानशरीराः, उक्तं च-"अच्छिनिमीलणमेत्तं नथि सुहं दुक्खमेव पडिबद्धं । नरए नेरइयाणं अहोनिसंपचमाणाणं ॥१॥" ततो मैथुनेच्छा नैतेषां भवतीति, यदि परं क्वचित्कदाचित्केषांचित् भवति साऽपि च स्तोककाला इति पृच्छासमये स्तोका मैथुनसझोपयुक्ताः, तेभ्यः सक्येयगुणा आहारसम्जोपयुक्ताः, दुःखितानामपि प्रभूतानां प्रभूतकालं चाहारेच्छाया भावतः पृच्छासमये अतिप्रभूतानामाहारसज्ञोपयुक्तानां संभवात् , तेभ्यः सङ्ख्येयगुणाः परिग्रहसम्जोपयुक्ताः, आहारेच्छा हि देहायमेव भवति परिग्रहेच्छा तु देहे प्रहरणादिषु च, प्रभूततरकालावस्थायिनी च परिग्रहेच्छा, ततः पृच्छासमयेऽतिप्रभूततराः परिग्रहसज्ञोपयुक्ता अवाप्यन्ते इति भवन्ति पूर्वेभ्यः सयेयगुणाः,
१ अक्षिनिमीलनमात्रं नास्ति सुखं दुःखमेव प्रतिबद्धम् । नरके नैरयिकाणामनिशं पच्यमानानाम् ॥ १॥
दीप अनुक्रम [३५४-३५५]
wwjanatarary.om
~ 49~