SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२७४ -२७५] दीप अनुक्रम [५२० -५२१] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) पदं [२१], - मूलं [२७४-२७५] ------- उद्देशक: [-], - दारं [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः | जलावगाहं कुर्वतां स्वभवायुःक्षयात् तत्रैव स्वप्रत्यासन्ने देशे मत्स्यतयोत्पद्यन्ते तदा अङ्गुलायेय भागप्रमाणा द्रष्टव्या, अथवा पूर्वसम्बन्धिनीं मनुष्यस्त्रियं मनुष्येणोपभुक्तामुपलभ्य गाढानुरागादिहागत्य परिष्वजते परिष्वज्य च तदवाच्यप्रदेशे स्वावाच्यं प्रक्षिप्य कालं कृत्वा तस्या एव गर्ने पुरुषबीजे समुत्पद्यते तदा लभ्यते, उत्कर्षतोऽधः पातालकलशानां लक्षयोजनप्रमाणावगाहानां द्वितीयत्रिभागं यावत् तिर्यग् यावत् स्वयम्भूरमणसमुद्रपर्यन्त ऊर्द्ध यावदच्युतकल्पस्तावदवगन्तव्या, कथमिति चेत्, उच्यते, इह सनत्कुमारादिदेवानामन्यदेवनिश्रया अच्युतकल्पं यावद् गमनं भवति, न च तत्र वाप्यादिषु मत्स्यादयः सन्ति तत इह तिर्यग्मनुष्येषूत्पत्तव्यं तत्र यदा सनत्कुमारदेवोऽन्यदेवनिश्रया अच्युतकल्पं गतो भवति तत्र च गतः सन् खायुःक्षयात्कालं कृत्वा तिर्यक् स्वयंभूरमणपर्यन्ते यदिवाऽधः | पातालकलशानां द्वितीयत्रिभागे वायूदकयोरुत्सरणापसरणभाविनि मत्स्यादितयोत्पद्यते तदा भवति तस्य तिर्यगधो वा यथोक्तक्रमेण तैजसशरीरावगाहनेति, 'एवं जाव सहस्सारदेवस्स त्ति एवं- सनत्कुमारदेवगतेन प्रकारेण जघन्यत उत्कर्षतश्च तैजसशरीरावगाहना तावद्वाच्या यावत्सहस्रारदेवेभ्यः, भावना [ऽपि ] सर्वत्रापि समाना, आनतदेवस्यापि जघन्यतोऽङ्गुलायेय भागप्रमाणा तैजसशरीरावगाहना, नन्वानतादयो देवा मनुष्येष्वेवोत्पद्यन्ते मनुष्याश्च मनुष्यक्षेत्र एवेति कथमङ्गला सङ्ख्येय भागप्रमाणा ?, उच्यते, इह पूर्वसम्बन्धिनीं मनुष्यस्त्रियमन्येन मनुष्येणोपभुक्ता|मानतदेवः कश्चनाप्यवधिज्ञानत उपलभ्यासन्नमृत्युतया विपरीतस्वभावत्वात् सत्त्वचरितवैचित्र्यात् कर्मगते रचिन्त्य For Parts Only ------ ~ 463~ jor
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy