SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [६], --------------- उद्देशक: [-], -------------- दारं [८], -------------- मूलं [१४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४५] यद्यस्मिन् भवे उदयमागतमवतिष्ठते तद् गतिजातिशरीरपञ्चकादिव्यतिरिक्तं स्थितिनामावसेयमिति भावः, गत्यादीनां वर्जनं तेषां खपदैः 'गइनामनिहत्ताउए' इत्यादिभिरुपात्तत्वात् , तेन सह निधत्तायुः स्थितिनामनिधत्तायुः ३, तथा अवगाहते यस्यां जीवः साऽवगाहना-शरीरं औदारिकादिः तस्य नाम-श्रीदारिकादिशरीरनामकर्म अवगाहनानाम शेष तथैव ४, 'पएसनामनिहत्ताउए'त्ति प्रदेशा:-कर्मपरमाणवः ते च प्रदेशाः संक्रमतोऽप्यनुभूयमानाः परिगृह्यन्ते तत्प्रधानं नाम प्रदेशनाम, किमुक्तं भवति ?-पयस्मिन् भवे प्रदेशतोऽनुभूयते तत्प्रदेशनामेति, अनेन विपाकोदयमप्राप्तमपि नाम परिगृहीतं, तेन प्रदेशनाना सह निधत्तमायुः प्रदेशनामनिधत्तायुः ५, तथाऽनुभावो-विपाकः, स चेह प्रकर्षप्राप्तः परिगृह्यते तत्प्रधानं नाम अनुभावनाम-यद्यस्मिन् भने तीव्रविपाकं नामकर्मानुभूयते त(य)था नारकायुषि अशुभवर्णगन्धरसस्पर्शीपघातानादेयदुःखरायशःकीत्यादिनामानि तदनुभावनाम तेन सह निधत्तमायुरनुभावना- मनिधत्तायुः ६, अथ कस्माजात्यादिनामकर्मभिरायुर्विशेष्यते ?, उच्यते, आयुःकर्मप्राधान्यख्यापनार्थ, तथाहि-नार काद्यायुरुदये सति जात्यादिनामकर्मणामुदयो भवति नान्यथेति भवत्यायुषः प्रधानता इति, अथ जात्यादिनामवि-IN ४शिष्टमायुः कियद्भिराकर्वनातीति जिज्ञासुजीवादिदण्डकक्रमेण पृच्छति-'जीवाणं भंते ! जातिनामनिहत्ताउयं कहहिं आगरिसेहिं पगरंति' इत्यादि, आकर्षो नाम तथाविधेन प्रयत्नेन कर्मपुद्गलोपादानं यथा गौः पानीयं पिबन्ती भयेन पुनः पुनराघोटयति एवं जीवोऽपि यदा तीनेणायुर्घन्धाध्यवसायेन जातिनामनिधत्तायुः अन्यद्वा बभाति दीप अनुक्रम [३५२] ~39~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy