________________
आगम
(१५)
प्रत
सूत्रांक
[२३४]
दीप
अनुक्रम [४७५]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
-
• उद्देशक: [-], ------------- • दारं [४],
• मूलं [२३४]
पदं [१८], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
➖➖➖➖➖➖➖➖➖➖➖➖➖➖
माणमसङ्ख्येयाः पुद्गलपरावर्त्तास्ततो यावन्तोऽसङ्ख्येयेषु पुद्गलपरावर्त्तेषु समयास्तैरभ्यस्ता एकसमयोद्वृत्ता जीवा यावन्तो भवन्ति तावत्परिमाणमागतं वनस्पतीनां ततः प्रतिनियतपरिमाणतया सिद्धं निर्लेपनं, प्रतिनियतपरिमाणत्वादेव च गच्छता कालेन सिद्धिरपि सर्वेषां भव्यानां प्रसक्ता, तत्प्रसक्तौ च मोक्षपथव्यवच्छेदोऽपि प्रसक्तः, सर्वभव्यसि - द्विगमनानन्तरमन्यस्य सिद्धिगमनायोगात्, आह च - "कायडिइका लेणं ते सिमसंखेज्जयावहारेणं । निलेवणमावनं सिद्धीवि य सबभवाणं ॥ १ ॥ पइसमयमसंखेजा जेणुधद्वंति तो तदग्भत्था । कार्यट्ठिइऍ समया वणस्सईणं च परिमाणं ॥ २ ॥ [ कायस्थितिकालेन तेषामसंख्येयकापहारेण । निर्लेपनमापन्नं सिद्धिरपि च सर्वभव्यानां ॥ १ ॥ प्रतिसमयमसंख्येया येनोद्वर्त्तन्ते ततस्तदभ्यस्ताः । कायस्थितेः समयाः वनस्पतीनां च परिमाणं ॥ २ ॥] न चैतदस्ति, वनस्पतीनामनादित्वस्य निर्लेपनप्रतिषेधस्य सर्वभव्यासिद्धेर्मोक्षपथाव्यवच्छेदस्य च तत्र तत्र प्रदेशे सिद्धान्तेऽभिधानात्, उच्यते, इह द्विविधा जीवाः -- सांव्यवहारिका असांव्यवहारिकाश्चेति, तत्र ये निगोदावस्थात उद्धृत्य पृथि वीकायिकादिभेदेषु वर्त्तन्ते ते लोकेषु दृष्टिपथमागताः सन्तः पृथिवीकायिकादिव्यवहारमनुपतन्तीति व्यवहारिका उच्यन्ते, ते च यद्यपि भूयोऽपि निगोदावस्थामुपयान्ति तथापि ते सांव्यवहारिका एव, संव्यवहारे पतितत्वात्, ये पुनरनादिकालादारभ्य निगोदावस्थामुपगता एवावतिष्ठन्ते ते व्यवहारपथातीतत्वाद सांव्यवहारिकाः, कथमेतदवसीयते १ द्विविधाः जीवाः सांव्यवहारिकाः असांव्यवहारिकाश्चेति, उच्यते, युक्तिवशात्, इह प्रत्युत्पन्नवन्
For Parts Only
~ 363~
wor