________________
आगम
(१५)
प्रत
सूत्रांक
[१९८]
+
गाथा:
दीप अनुक्रम [ ४२८
-४३२]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
-
पदं [१५], -------------- उद्देशक: [१], , दारं [-], -------------- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१५] उपांगसूत्र- [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
मूलं [१९८] + गाथा:
दिसम्बन्धिनां नक्षत्राणां कृत्तिकादीनां चन्द्राणां सूर्याणां च नामानि तानि सर्वाण्यपि द्वीपसमुद्राणां त्रिप्रत्यवताराणि वक्तव्यानि तद्यथा-- हारो द्वीपो हारः समुद्रः हारवरो द्वीपो हारवरः समुद्रः हारवरावभासो द्वीपो हारवरावभासः समुद्र इत्यादिना प्रकारेण त्रिप्रत्यवतारास्तावद् वक्तव्याः यावत् सूर्यो द्वीपः सूर्यस्समुद्रः सूर्यवरो द्वीपः सूर्यवरस्समुद्रः सूर्यवरावभासो द्वीपः सूर्यवरावभासः समुद्रः, उक्तं च जीवाभिगमचूर्णो - " अरुणाई दीवसमुद्दा तिपडोयारा यावत् सूर्यवरावभासः समुद्रः " ततः सूर्यवरावभासपरिक्षेपी देवो द्वीपस्ततो देवः समुद्रः, तदनन्तरं नागो द्वीपो नागः समुद्रः, ततो यक्षो द्वीपो यक्षः समुद्रः, ततो भूतो द्वीपो भूतः समुद्रः, स्वयम्भूरमणो द्वीपः खयम्भूरमणः समुद्रः, एते पञ्च देवादयो द्वीपाः पञ्च देवादयः समुद्राः एकरूपाः, न पुनरेषां प्रत्यवतारः, उक्तं च जीवाभिगम चूर्णो- 'एते पञ्च द्वीपाः पञ्च समुद्रा एकप्रकारा' इति, जीवाभिगमसूत्रेऽप्युक्तम् - "देवे नागे जक्खे भूए सयंभूरमणे य एकेको चैव भाणियचो, तिपडोयारं नत्थित्ति" इति । पूर्वमाकाशथिग्गलशब्देन लोकः पृष्टोऽधुना लोकशब्देनैव तं पिपृच्छिपुराह— 'लोए णं भंते! किंणा फुडे' इत्यादि, पाठसिद्धं, अलोकसूत्रमपि पाठसिद्धं, नवरं 'एगे अजीवदधदेसे' इति अलोक एकोऽजीवद्रव्यदेशः, आकाशास्तिकायस्य देश इत्यर्थः, परिपूर्णस्त्वाकाशास्तिकायो न भवति, लोकाकाशेन हीनत्वात्, अत एवागुरुलघुको मूर्त्तत्वात्, अनन्तैरगुरुलघुकगुणैः संयुक्तः, प्रतिप्रदेशं खपर| मेदभिन्नानामनन्तानामगुरुलघुपर्यायाणां भावात् किंप्रमाणः सोऽलोक इति चेत्, अत आह— सर्वाकाशमनन्त
For Parts Only
~ 219~
waryru