________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१५], -------------- उद्देशक: [१], -------------- दारं ], -------------- मूलं [१९७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
Caese
।
सूत्रांक
[१९७]
दीप अनुक्रम [४२७]
|त्मानं १, अत्रात्मशब्देन शरीरमभिगृह्यते, उत 'पलिभाग'मिति प्रतिभागं प्रतिबिम्ब ?, भगवानाह-आदर्श तावत् । प्रेक्षत एव, तस्य स्फुटरूपस्य यथावस्थिततया तेनोपलम्भात् , आत्मानं-आत्मशरीरं पुनर्न पश्यति, तस्य तत्राभावात् , खशरीरं हि खात्मनि व्यवस्थितं नादर्श ततः कथमात्मशरीरं च तत्र पश्येदिति ?, प्रतिभागं-खशरीरस्य प्रतिविम्ब 11 पश्यति, अथ किमात्मकं प्रतिबिम्ब ?, उच्यते, छायापुद्गलात्मकं, तथाहि-सर्वमैन्द्रियकं वस्तु स्थूलं चयापचयधर्मक रश्मिवच, रश्मय इति छायापुद्गलाः, व्यवहियन्ते च छायापुद्गलाः प्रत्यक्षत एव सिद्धाः, सर्वस्यापि स्थूलवस्तुनः छाया, अध्यक्षतः प्रतिप्राणि प्रतीतेः, अन्यच्च यदि स्थूलवस्तु व्यवहिततया दूरस्थिततया वा नादर्शादिश्ववगाढरश्मिर्भवति ततो न तत्र तदृश्यते तस्मादवसीयते सन्ति छायापुद्गला इति, ते च छायापुद्गलास्तत्तत्सामग्रीवशाद्विचित्रपरिणमनखभावास्तथाहि-ते छायापुद्गला दिवा वस्तुन्यभाखरे प्रतिगताः सन्तः खसंबंधिद्रव्याकारमाविनाणाः श्यामरू-1 पतया परिणमन्ते निशि तु कृष्णाभाः, एतच प्रसरति दिवसे सूर्यकरनिकरे निशि तु चन्द्रोद्योते प्रत्यक्षत एव सिद्धं, त एव छायापरमाणवः आदर्शादिभाखरद्रव्यप्रतिगताः सन्तः स्वसंबंधिद्रव्याकारमादधानाः यारा वर्णः स्वसम्बन्धिनि
द्रव्ये कृष्णो नीलः शितः पीतो वा तदाभाः परिणमन्ते, एतदप्यादर्शादिष्वध्यक्षतः सिद्ध, ततोऽधिकृतसूत्रेऽपि ये मनुसाव्यस्य छायापरमाणव आदर्शमुपसंक्रम्य स्खदेहवर्णतया खदेहाकारतया च परिणमन्ते तेषां तत्रोपलब्धिर्न शरीरस्य, ते 81
च प्रतिविम्बशब्दा वाच्या अत उक्त-न शरीरं पश्यति किन्तु प्रतिभागमिति, नैवैतत् खमनीषिकाविजृम्भितं, यत ।
~213~