________________
आगम
(१५)
प्रत
सूत्रांक
[१८९
-१९०]
गाथा
दीप
अनुक्रम
[४१६
-४१८]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:) पदं [१४], -------------- उद्देशकः [-], ------ · दारं [-], -------------- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
• मूलं [१८९-१९० ] + गाथा
भंते! कहहिं ठाणेहिं अट्ठ कम्मपगडीओ चिर्णिसु' इत्यादि, जीवा भदन्त ! कतिभिः स्थानैरष्टौ कर्मप्रकृतीश्चितवन्तः, चयनं नाम कपायपरिणतस्य कर्मपुद्गलोपादानमात्रं, भगवानाह - गौतम! चतुर्भिः स्थानैस्तद्यथा - क्रोधेन मानेन मायया लोभेन, एवं नैरयिकादिदण्डकेऽपि वक्तव्यं, एष दण्डकोऽतीतकालविषयः, एवं वर्तमानकालभविष्यत्कालविषयावपि वाच्यौ, एवमुपचयबन्धोदीरणावेदननिर्जराविषयाः प्रत्येकं त्रयस्त्रयो दण्डका वाच्या इति सर्वसङ्ख्यया अष्टादश दण्डकाः, तत्र उपचयो नाम स्वस्याबाधाकालस्योपरि ज्ञानावरणीयादिकर्मपुद्गलानां वेदनार्थं निषेकः, स चैवं - प्रथमस्थितौ सर्वप्रभूतं, द्वितीयस्यां स्थितौ विशेषहीनं, ततोऽपि तृतीयस्यां विशेषहीनं, एवं विशेषहीनं २ तावद्वाच्यं यावत्तत्तत्कालबध्यमानायाः स्थितेश्वरमा स्थितिरेतच सविस्तरं कर्मप्रकृतिटीकायां पञ्चसंग्रहटीकायां चाभिहितमिति ततोऽयधायें, बन्धनं नाम - ज्ञानावरणीयादिकर्मपुद्गलानां यथोक्तप्रकारेण स्वस्वाबाधाकालोत्तरकालं निषिक्तानां यद्भूयः कषायपरिणतिविशेपान्निकाचनं, उदीरणं - उदीरणाकरणवशतः कर्मपुद्गलानामनुदयप्राप्तानामुदयावलिकायां प्रवेशनं, तदपि हि किञ्चित्तथाविधकपायपरिणतिवशाद्भवतीति 'चउहिं ठाणेहिं उदीरंसु उदीरन्ति उदीरिस्संती' त्युक्तम्, अन्यथा कषायव्यतिरेकेणापि क्षीणमोहोदये ज्ञानावरणादीनामुदीरका वर्त्तन्ते इति, वेदना-खवाबाधाकालक्षयादुदयप्राप्तस्य उदीरणाकरणेन वा उदयमुपनीतस्य कर्मण उपभोगः, निर्जरा-कर्मपुद्गलानामनुभूय २ अकर्मत्वापादनं, आत्मप्रदेशैः संश्लिष्टानां ज्ञानावरणीयादिकर्म पुद्गलानामनुभूय २ शातनमिति भावः,
Eucation Internation
For Parts Only
~ 187 ~