________________
आगम
(१५)
प्रत
सूत्रांक
[...१८०]
दीप
अनुक्रम
[४०४]
-
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्ति:) - उद्देशक: [ - ], ------------ दार [-] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
पदं [१२],
- मूलं [... १८० ]
------
चतुर्थः पोडश पञ्चमो द्वात्रिंशतं पष्ठश्चतुःषष्टिं स चैवं पञ्चमवर्गेण गुणितः षण्णवतिः, कथमेतदवसेयमिति चेतू १, उच्यते, इह यो यो वर्गो येन येन वर्गेण गुण्यते तत्र तत्र तयोर्द्वयोरपि छेदनकानि प्राप्यन्ते, यथा प्रथमवर्गेण गुणिते द्वितीयवर्गे पटू, तथाहि - द्वितीयो वर्ग: पोडशलक्षणः प्रथमवर्गेण चतुष्करूपेण गुण्यते जाता चतुःषष्टिः, तस्याः प्रथमं छेदनकं द्वात्रिंशत् द्वितीयं षोडश तृतीयमष्टौ चतुर्थ चत्वारः पञ्चमं द्वौ षष्ठं एक इति, एवमन्यत्रापि भावनीयं तत्र पञ्चमवर्गे द्वात्रिंशच्छेदनकानि षष्ठे चतुःषष्टिः, ततः पञ्चमवर्गेण षष्ठे वर्गे गुणिते षण्णवतिछेदनकानि प्राप्यन्ते, अथवा एकं रूपं स्थापयित्वा ततः षण्णवतिवारान् द्विगुणद्विगुणीक्रियते, कृतं च सत् यदि तावत्प्रमाणो राशिर्भवति ततोऽवसातव्यं एष षण्णवतिच्छेदनकदायी राशिरिति, तदेवं जघन्यपदमभिहितम्, इदानीमुत्कृष्टपदमाह – 'उक्कोसपए असंखेज्जा' इत्यादि, उत्कृष्टपदे ये मनुष्या भवन्ति ते असङ्ख्येयाः, तत्रापि कालतः परिमाणचिन्तायां प्रति समय मे कैकमनुष्यापहारे सामस्त्येनासङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतो रूपे प्रक्षिसे मनुष्यैरेका श्रेणिः परिपूर्णाऽपह्रियते, किमुक्तं भवति १ – उत्कृष्टपदे ये मनुष्यास्तेषु | मध्ये एकस्मिन्न सत्कल्पनया रूपे प्रक्षिसे सकलाऽपि श्रेणिरेकाऽपहियते, तस्याश्च श्रेणेः क्षेत्रकालाभ्यामपहारमार्गणा कालतस्तावदसङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिः क्षेत्रतोऽङ्गुलप्रथमवर्गमूलं तृतीय वर्गमूलप्रत्युत्पन्नं, किमुक्तं भव| ति १ - अङ्गुलमात्रक्षेत्र प्रदेशराशिरसत्कल्पनया षट्पञ्चाशदधिकशतद्वयप्रमाणस्तस्य यत्प्रथमं वर्गमूलमसत्कल्पनया
For Parts Only
-------------
~167~