________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------- उद्देशक: [-1, ------------- दारं -1, ------------- मूलं [...१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
१२ शरी
प्रत
याः मल- य०वृत्ती.
सुत्रांक [...१८०
॥२७९॥
दीप अनुक्रम [४०४]
भागे यावन्त आकाशप्रदेशास्तावत्प्रदेशात्मिका सूचिः परिगृवते, तावत्या च सूच्या याः श्रेणयः स्पृष्टास्तासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानि तिर्यपञ्चेन्द्रियाणां बद्धानि वैक्रियशरीराणि, उक्तं च-"अङ्गुलमूलासंखेयभागप्पमियाउ होंति सेढीओ । उत्तरविउधियाणं तिरियाणं सन्निपजाणं ॥१॥" मुक्तान्यौधिकमुक्तवत् , तैजसकार्मणानि बद्धानि बद्धौदारिकवत् , मुक्तान्यौधिकमुक्तवत् , मनुष्याणां बद्धान्यौदारिकशरीराणि स्यात्-कदाचित सङ्ख्येयानि कदाचिदसोयानि, कोऽत्राभिप्रायः इति चेत् ।, उच्यते, इह द्वये मनुष्या-गर्भव्युत्क्रान्तिकाः सम्मूछिमाश्च, तत्र गर्भव्युत्क्रान्तिकाः सदावस्थायिनो, न स कश्चित्कालोऽस्ति यो गर्भव्युत्क्रान्तिकममुण्यरहितो भवति, सम्मूछिमाश्च कदाचिद्विद्यन्ते कदाचित्सर्वथा तेषामभावो भवति, तेषामुत्कर्षतोऽन्तर्मुहर्त्तायुष्कत्वात् , उत्प-18 स्यन्तरस्य चोत्कर्षतश्चतुर्विंशतिमुहूर्तप्रमाणत्वात् , ततो यदा सर्वथा सम्मूछिममनुष्या न विद्यन्ते किन्तु केपला गर्भव्युत्क्रान्तिका एव तिष्ठन्ति तदा स्यात् सङ्ख्ययाः, सङ्ख्येयानामेव गर्भव्युत्क्रान्तिकानां भावात् , महाशरीरत्वे प्रत्येकशरीरत्वे च सति परिमितक्षेत्रवर्चित्वात् , यदा तु सम्मूञ्छिमास्तदा असङ्येयाः, सम्मूछिमानामुत्कर्षतः श्रेण्यसङ्ग्येयभागवर्जिनभःप्रदेशराशिप्रमाणत्वात्, तथा चाह-जहन्नपदे संखेजा' इत्यादि, जघन्यपदं नाम यत्र सर्वस्तोकाः मनुष्याः प्राप्यन्ते, आह-किमत्र सम्मूञ्छिमाणां ग्रहणमुत गर्भव्युत्कान्तिकानां ?, उच्यते, गर्भव्युत्क्रा-18 न्तिकानां, तेषामेव सदाऽवस्थायितया सम्मूछिमविरहे सर्वस्तोतया प्राप्यमाणत्वात् , उत्कृष्टपदे तूमयेषामपि
~162~