________________
आगम
(१५)
प्रत
सूत्रांक
[...१८०]
दीप
अनुक्रम
[४०४]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
पदं [१२], ------------- उद्देशक: [ - ],
, दारं [-1], [------------- • मूलं [... १८० ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
'बेइंदियाण' मित्यादि, द्वीन्द्रियाणा सम्बन्धिभिरौदारिकशरीरैर्वद्धैः प्रतरमसङ्ख्ये याभिरुत्सर्पिण्यव सर्पिणीभिरपहियते, अत्र प्रतरमिति क्षेत्रतः परिमाणं उत्सर्पिण्यवसर्पिणीभिरिति कालतः, किंप्रमाणेन पुनः क्षेत्रेण कालेन वा अपहरणमत आह- 'अंगुलपयरस्स आवलियाए य असंखेज्जइभाग पलिभागेणं'ति, अङ्गुलमात्रस्य प्रतरस्य – एकप्रादेशिक श्रेणिरूपस्य असङ्ख्य भाग प्रतिभागप्रमाणेन खण्डेन, इदं क्षेत्रविषयं परिमाणं, कालपरिमाणमावलिकाया। असङ्ख्य भागप्रतिभागेना संख्येयतमेन प्रतिभागेन, किमुक्तं भवति ?- एकेन द्वीन्द्रियेणाङ्गुला संख्येय भागप्रमाणं खण्डमावलिकाया असङ्ख्येयतमेन भागेनापहियते, द्वितीयेनापि तावत्प्रमाणं खण्डं तावता कालेन, एवमपहियमाणं प्रतरं द्वीन्द्रियैः सर्वैरसङ्ख्येयाभिरुत्सर्पिण्यव सर्पिणीभिः सकलमपहियते इति, मुक्तान्यौधिकमुक्तवत्, तेजसकार्मणानि बद्धानि बद्धौदारिकवत्, वैक्रियाणि पुनर्वद्धानि तेषां न सन्ति, मुक्तान्यधिकमुक्तवत्, एवं त्रिचतुरिन्द्रियाणामपि । तिर्यक्पञ्चेन्द्रियाणां वद्धानि मुक्तानि चौदारिकाणि द्वीन्द्रियवत्, वैक्रियाणि बद्धानि असङ्ख्येयानि, तत्र कालतः परिमाणचिन्तायामसङ्ख्येयाभिरुत्सपिण्यव सर्पिणीभिरपहियन्ते, क्षेत्रतोऽसङ्ख्येयासु श्रेणिषु यावन्तः आकाशप्रदे शास्तावत्प्रमाणानि, तासां च श्रेणीनां परिमाणं प्रतरस्यासङ्ख्येयो भागः, तथा चाह- 'जहा असुरकुमाराण' मिति, यथा असुरकुमाराणां तथा वक्तव्यं, नवरं विष्कम्भसूचिपरिमाणचिन्तायां तत्राङ्गुलप्रमाणवर्गमूलस्य सङ्ख्येयो भाग उक्त इह त्वसङ्ख्येयो भागो वक्तव्यः, किमुक्तं भवति ? - अङ्गुलमात्र क्षेत्र प्रदेशराशेः यत्प्रथमं वर्गमूलं तस्यासङ्ख्ये यतमे
For Pasta Use Only
~ 161~