________________
आगम
(१५)
प्रत
सूत्रांक
[१६५ ]
+
गाथा:
दीप
अनुक्रम [३७९
-३८८]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
पदं [११],
• मूलं [ १६५] + गाथा:
------- उद्देशकः [-], ---दारं [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापना
याः मल
य० वृत्ती.
॥२५८॥
मृषाभाषा दशविधा, तद्यथा - 'कोहनिस्सिया' इत्यादि, क्रोधान्निःसृता क्रोधाद्विनिर्गता इत्यर्थः एवं सर्वत्रापि भावनीयं, तंत्र क्रोधाभिभूतो विसंवादनवुद्ध्या परप्रत्यायनाय यत्सत्यमसत्यं वा भाषते तत्सर्वं मृषा, तस्य हि आशयोऽतीव दुष्टस्ततो यदपि घुणाक्षरन्यायेन सत्यमापतति शाख्यबुद्ध्या वोपेत्य सत्यं भाषते तदाऽप्याशयदोषदुष्टमिति मृषेति १, माननिःसृता यत् पूर्वमननुभूतमप्यैश्वर्यमात्मोत्कर्षख्यापनायानुभूतमस्माभिस्तदानीमैश्वर्यमित्यादि वदतः २ मायानिःसृता यत् परवञ्चनाद्यभिप्रायेण सत्यमसत्यं वा भाषते लोभनिःसृता यलोभाभिभूतः कुटतुलादि कृत्वा यथोक्तप्रमाणमिदं तुलादीति वदतः ४ प्रेमनिःसृता यदतिप्रेमवशाद्दासोऽहं तवेत्यादि वदतः ५ द्वेषनिःसृता यत्प्रतिनिविष्टः तीर्थकरादीनामध्यवर्ण भाषते ६ हास्यनिःसृता यत्केलिवशतोऽनृतभाषणं ७ भयनिःसृता तस्करादिभयेनासमजसभाषणं ८ आख्यायिका निःसृता यत्कथावसम्भाव्याभिधानं ९ उपघातनिःसृता चौरस्त्वमित्याद्यभ्याख्यानं १०, अत्रापि सङ्ग्रहणिगाथामाह - 'कोहे माणे' इत्यादि, भावितार्था । सत्यामृषा दशविधा, तद्यथा - 'उप्पण्णमिस्सिया' इत्यादि, उत्पन्ना मिश्रिता अनुत्पन्नैः सह सङ्ख्यापूरणार्थं यत्र सा उत्पन्नमिश्रिता, एवमन्यत्रापि यथायोगं भावनीयं तत्रोत्पन्नमिश्रिता यथा कस्मिंश्चित् ग्रामे नगरे वा ऊनेष्वधिकेषु वा दारकेषु जातेषु दश दारका अस्मिन्नद्य जाता इत्यादि १, एवमेव मरणकथने विगतमिश्रिता २, तथा जन्मतो मरणस्य च कृतपरिमाणस्याभिधाने विसंवादेन चोत्पन्नविगतमिश्रिता ३, तथा प्रभूतानां जीवतां स्वोकानां च मृतानां शङ्खशङ्खनकादीनामेकत्र राशी दृष्टे यदा
For Parts Only
------------
~ 120~
११ भाषा
पदं
॥२५८॥