________________
आगम
(१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ------------- उद्देशक: [-], ------------ दारं ],------------ मूलं [१६५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१६५]
गाथा:
कायदा त्वेकामधिकृत्य इस्खत्वमपरामधिकृत्य दीर्घत्वं तदा सत्त्वासत्त्वयोरिव भिन्ननिमित्तत्वान्न परस्परं विरोधः, अध||
यदि तात्त्विके इखत्वदीर्घत्वे तत ऋजुत्ववक्रत्वे इव कस्मात्ते परनिरपेक्षे न प्रतिभासेते ?, तस्मात् परोपाधिकत्वात् ॥ काल्पनिके इमे इति, तदयुक्तं, द्विविधा हि वस्तुनो धर्माः-सहकारिव्ययरूपा इतरे च, तत्र ये सहकारिव्यङ्ग्यरूपास्ते सहकारिसम्पर्कवशात् प्रतीतिपथमायान्ति, यथा पृथिव्यां जलसम्पर्कतो गन्धः, इतरे स्वेवमेवापि यथा कर्पूरादिगन्धः, इखत्वदीर्घत्वे अपि च सहकारियङ्ग्यरूपे, ततस्ते तं सहकारिणमासायाभिव्यक्तिमायात इत्यदोषः, तथा व्यवहारो-लोकविवक्षा, व्यवहारतः सत्या व्यवहारसत्या, यथा गिरिदयते गलति भाजन अनुदरा कन्या अलोमिका एडका, लोका हि गिरिगततृणदाहे तृणादिना सह गिरेरभेदं विवक्षित्वा गिरिर्दयते इति ब्रुवन्ति, भाजनादुदके श्रवति उदकभाजनयोरभेदं विवक्षित्वा गलति भाजनमिति, संभोगवीजप्रभवोदराभावे अनुदरा इति, लवनयोग्यलोमाभावे अलोमिकेति, ततो लोकव्यवहारमपेक्ष्य साधोरपि तयात्रुवतो भाषा ब्यवहारसत्या भवति, तथा भावो वर्णादिर्भावतः सत्या भावसत्या, किमुक्तं भवति ?-यो भाषो वर्णादिवस्मिन्नुत्कटो भवति तेन या सत्या भाषा (सा)भावसत्या, यथा सत्सपि पञ्चवर्णसम्भये बलाका शुक्लेति, तथा योगः-सम्बन्धः तस्मात् सत्या योगसला, तत्र छत्रयोगात् विवक्षितशब्दप्रयोगकाले छत्राभावेऽपि छत्रयोगस्य सम्भवात् छत्री एवं दण्डयोगात् दण्डी, औपम्यसत्या यथा समुद्रवत्तडागः, अत्रैमा पिनेयजनानुप्रहाय सहणिगायामाह-'जणवयसम्मवठवणा' इत्यादि भाविता
दीप अनुक्रम [३७९-३८८]
~119~