________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], ------------- उद्देशक: [-], ------------ दारं ------------- मूलं [१६५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
११भाषा
[१६५]
प्रज्ञापनाया: मलयवृत्ती.
॥२५७॥
गाथा:
रूपतयाऽवधारयितुं शक्यते सा अपर्याप्ता, सा च सत्यामृषा असत्यामृषा वा द्रष्टव्या, उभयोरपि प्रतिनियतेन रूपे- (णावधारयितुमशक्यत्वात् । 'पज्जत्तिया णं भंते ! इत्यादि भावितं, नवरं सत्या मृषा चेत्युक्तमतः सत्याभेदावगमाय प्रश्नमाह-सच्चा णं भंते ! भासा पजत्तिया कइविहा पण्णत्ता' इति पाठसिद्धं, भगवानाह-'गोयमा !' इत्यादि 'जणवयसच्चा' इति तं तं जनपदमधिकृत्येष्टार्थप्रतिपत्तिजनकतया व्यवहारहेतुत्वात् सत्या जनपदसत्या यथा कोकणादिषु पयः पिचमित्यादि १, सम्मतसत्या या सकललोकसाम्मत्येन सत्यतया प्रसिद्धा कुमुदकुवलयोत्पलतामरसानां समानेऽपि पसंभवत्वे गोपालजना अरविन्दमेव पङ्कजं मन्यन्ते न शेपमित्यरविन्दे पकूजमिति सम्मतसत्या २ स्थाप-| नासत्या या तथाविधमकादिविन्यासं मुद्राविन्यासं चोपलभ्य प्रयुज्यते यथा एककं पुरतो बिन्दुद्यसहितमुपलभ्य शतमिदमिति, बिन्दुप्रयसहितं सहस्रमिदमिति, तथा तथाविधं मुदाविन्यासमुपलभ्य मृत्तिकादिषु मापोऽयं कार्पोप-1 णोऽयमिति, तथा नामतः सत्या नामसत्या यधा कुलमवर्द्धयन्नपि कुलबर्द्धन इति, तथा रूपतः सत्या रूपसत्या, यथा दम्भतो गृहीतप्रजितरूपः प्रत्रजितोऽयमिति, तथा प्रतीय-आश्रित्य वस्त्वन्तरं सत्या प्रतीत्यसत्या यथा अना मिकाया कनिष्ठामधिकृल्प दीर्घत्वं मध्यमामधिकृत्य इखत्वं, न च वाच्यं कथमेकस्यां हखत्वं दीर्घत्वं च तात्त्विकं !, परस्परविरोधादिति, भिन्ननिमित्तत्वेन परस्परविरोधासम्भवात् , तथाहि-तामेव यदि कनिष्ठ मध्यमा वा एकामङ्गुलिमङ्गीकृत्य इखत्वं दीर्घत्वं च प्रतिपाद्येत ततो विरोधः सम्भवेत् , एकनिमित्तपरस्परविरुद्धकार्यद्वयासम्भवात् ,
दीप अनुक्रम [३७९-३८८]
Eccidence
।।२५७॥
~118~