________________
आगम
(१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], -------------उद्देशक: [-, ------------ दारं ------------- मूलं [१६५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१६५]
गाथा:
ति-उत्पद्यते काययोगाद्वाग्योगाद्वा?, तथा कतिभिः समयैर्भाषा भाषते ?, किमुक्तं भवति ?-कतिभिः समर्निसृज्यमानद्रव्यसंहत्यात्मिका भाषा भवति, तथा भाषा कतिप्रकारा-कतिप्रभेदा ? कति वा भाषाः साधूनां वक्तुमनुमता-अनुज्ञाता ? । अत्र निर्वचनं-'सरीरप्पभवा' इत्यादि, अत्र शरीरग्रहणेन शरीरयोगः परिगृह्यते, शरीरमात्र-IM प्रभवत्वस्य प्रागेव निर्णीतत्वात्, शरीरप्रभवा इति कोऽर्थः -काययोगप्रभवा, तथाहि-काययोगेन भाषायोग्यान् पुद्गलान् गृहीत्वा भाषात्वेन परिणमय्य वाग्योगेन निसृजति, ततः काययोगवलाद्भाषा उत्पद्यते इति काययोगप्रभवेत्युक्तं, आह च भगवान् भद्रबाहुखामी-गिण्हइ य काइएणं निसरइ तह वाइएण जोगेण मिति, 'कहि व समएहिं भासई भास'मित्यस्य निर्वचनं द्वाभ्यां समयाभ्यां भाषते भाषां, तथाहि-एकेन समयेन भाषायोग्यान्| | पुद्गलान् गृह्णाति द्वितीय समये भाषात्वेन परिणमय्य विसृजतीति, भासा कइप्पगारा' इत्यस्य निर्वचनं भाषा 18 | सत्यादिभेदाच्चतुःप्रकारा ते च सत्यादयो भेदाः प्रागेव भाविता इति, 'कइ वा भासा अणुमया य' इत्यस्य निर्वचनं
सत्यादी द्वे भाषे साधूनां वक्तुमनुमते, तद्यथा-सत्या असत्यामृपा च, अर्थात् ये मृषासत्यामृषे ते नानुज्ञाते, तयोरयधावस्थितार्थप्रतिपादनपरतया मुक्तिप्रतिपन्धित्वात्, पुनः प्रश्नयति-'कइविहा ण'मित्यादि, 'पज्जत्तिया अपज्ज-18 त्तिया' इति पयोप्ता नाम या प्रतिनियतरूपतया अवधारयितुं शक्यते सा पर्यासा, सा च सत्या मृषा वा द्रष्टव्या, उभयोरपि प्रतिनियतरूपतयाऽवधारयितुं शक्यत्वात् , या तु मिश्रतया उभयप्रतिषेधात्मकतया वा न प्रतिनियत
teaeseserveeeeeeeees
दीप अनुक्रम [३७९-३८८]
~117~