________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], --------------- उद्देशक: -1, -------------- दारं -1, -------------- मूलं [१६४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [१६४]
दीप अनुक्रम [३७८]
प्रज्ञापना-इहापि मनुष्य इत्यादावुपसर्जनीकृतधा धर्मी प्राधान्येन विवक्षित इति भवति सर्वाप्येवंजातीया एकत्वप्रतिपा- ११भाषायाः मल
दिका वाक् । 'अह भंते ! मणुस्सा' इत्यादि, अक्षरगमनिका प्राग्वत्, अत्रापीदं संशयकारणं-मनुष्यादयः शब्दापदं य०वृत्ती.
जातिवाचकाः, जातिश्च सामान्य सामान्यं चैकं 'एक निसं निरवयवमक्रियं सर्वगं च सामान्य मितिवचनात्, ततः
कथमत्र बहुवचनं १, अथ च दृश्यते बहुवचनेनापि व्यवहार इति पृच्छति-सर्वा सा बहुत्वप्रतिपादिका वाक ॥२५४||
भवति ?, काका पाठात् प्रश्नार्थत्वावगतिः, अत्र भगवानाह-हंता गोयमा !' इत्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयं-यद्यपि नामैते जातिवाचकाः शब्दाः तथापि जातिरभिधीयते समानपरिणामः, समानपरिणामश्चासमान-IN परिणामाविनाभावी, अन्यथैकत्वापत्तितः समानत्यायोगात्, ततो यदा समानपरिणामोऽसमानपरिणामसंलुलितः प्राधान्येन विवक्ष्यते तदाऽसमानपरिणामस्य प्रतिव्यक्ति भिन्नत्वात् तदभिधाने बहुवचनं, यथा घटा इति, यदा तु स एव एकः समानपरिणामः प्राधान्येन विवक्ष्यते इतरस्त्वसमानपरिणाम उपसर्जनीभूतस्तदा सर्वत्रापि समानप-15 रिणामस्य एकत्वात् तदभिधाने एकवचनं, यद्वा सर्वोऽपि घटः पृथुवृनोदराद्याकार इति, अत्रापि मनुष्या इत्यादौ । समानपरिणामोऽसमानपरिणामसंलुलितः प्राधान्येन विवक्षित इति, तस्थानेकत्वभावात् बहुवचनं । 'अह भंते ITBIR५४॥ मणुस्सी'त्यादि, अत्रेदं संशयकारणं-इह सर्व वस्तु त्रिलिङ्गं, तथाहि-मृद्रूपोऽयमिति पुंल्लिङ्गता मृत्परिणतिरियं । घटाकारा परिणतिरियमिति स्त्रीलिङ्गता, इदं वस्त्विति नपुंसकलिङ्गता, तत्रैवं शबलरूपे वस्तुनि व्यवस्थिते कथमे
~112~