SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [११], --------------- उद्देशक: -1, -------------- दारं -1, -------------- मूलं [१६४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१६४] दीप अनुक्रम LATESTAR0902 अच्छभल्लः तरक्षो-व्याघ्रजातिविशेषः परस्सरो-गण्डः शृगालो-गोमायुः बिडालो-मार्जारः शुनको-मृगकादशः कोलशुनको-मृगयाकुशलः था शशक:-प्रतीतः कोकंतिया-लुडी चित्रका-प्रतीतः चिखलका|आरण्यः पशुविशेषः, 'जे यावन्ने तहप्पगारा' इति येऽपि चान्ये तथाप्रकारा एकवचनान्ता इत्यर्थः, सर्वा सा एक-18 वाक्-एकत्वप्रतिपादिका वाणी, अयमत्र प्रश्नहेतुरभिप्रायः-इह वस्तु धर्माधमिसमुदायात्मकं धर्माश्च प्रतिवस्त्वनन्ताः मनुष्य इत्यांद्युक्तौ च सकलं वस्तु धर्मधर्मिसमुदायात्मकं परिपूर्ण प्रतीयते, तथा व्यवहारदर्शनात् , एकस्मिंश्चार्थे एकवचनं बहुषु बहुवचनं, अत्र बहवो धम्मा अभिधेयाः ततः कथमेकवचनं ?, अथ च दृश्यते लोके एकवचनेनापि व्यवहार इति पृच्छति-सर्वा सा एकत्वप्रतिपादिका वाग् भवति ?, काका चेदं पठ्यते ततः प्रश्चार्थत्वावगतिः, भगवानाह-हंता गोयमा !' इत्यादि, अक्षरार्थः सुगमः, भावार्थस्त्वयं-शब्दप्रवृत्तिरिह विवक्षाधीना, विवक्षा च तत्तत्प्रयोजनवशात् वक्तुः क्वचित् कदाचित् कथञ्चित् भवतीत्यनियता, तथाहि-स एवैकः पुरुषो |यदाऽयं मे जनक इति पुत्रेण विवक्ष्यते तदा जनक इत्यभिधीयते, स एव यदा तेनैव मामध्यापयतीति विवक्ष्यते तदा तूपाध्याय इति, तत्र यदा उपसर्जनीभूतधर्मा धर्मी प्राधान्येन विवक्ष्यते तदा धम्मिण एकत्यात् एकवचन, धर्माश्च धमिण्यन्तर्गता इति परिपूर्णवस्तुप्रतीतिर्यथा त्वमिति, यदा तूपसर्जनीभूतधर्मिणो धर्माः पाण्डित्यपरोपकारित्वमहादानदातृत्वादयः प्राधान्मेन विवक्ष्यन्ते तदा धर्माणां बहुत्वादेकस्मिन्नपि बहुवचनं यथा यूवमिति, तत [३७८] । ~111~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy