________________
आगम
(१५)
प्रत
सूत्रांक
[१६२ ]
दीप
अनुक्रम
[३७६]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
-
पदं [११],
• उद्देशक: [ - ], ------ ------- दारं [-], -------मूलं [ १६२ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१५] उपांगसूत्र- [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
न चैवंरूपाणि रूयादिलक्षणानि खट्ठादिषूपलभ्यन्ते, तथाहि —– यद्येकैकावयव पृथक्करणेन सम्यग् निभालनं क्रियते तथापि न तेषां ख्यादिलक्षणानां तत्रोपलम्भोऽस्ति ततः प्रज्ञापनीयं भाषा न वेति जातसंशयः तदपनोदाय पृच्छति, अत्र भगवानाह - 'हंता गोयमेत्यादि अक्षरगमनिका प्राग्वत्, भावार्थस्स्त्वयं-- नेह शब्दप्रवृत्तिचिन्तायां यथोक्तानि |रूयादिलक्षणानि स्त्रीलिङ्गादिशब्दाभिधेयानि किन्त्वभिधेयधर्मा इयमयमिदंशब्दव्यवस्थाहेतवः गुरूपदेश पारम्पर्यगम्याः स्त्रीलिङ्गादिशब्दाभिधेयाः, न चैते कल्पनामात्रं, वस्तुतस्तत्तच्छन्दाभिधेयतया परिणमनभावात् तेषामभिधेयधर्माणां तत्त्वतस्तात्त्विकत्वात्, आह च शकटसूनुरपि -- “ अयमियमिदमितिशब्दव्यवस्थाहेतुरभिधेयधर्म उपदेशगम्यः स्त्रीपुंनपुंसकत्वानी "ति, व्यवस्थापितश्चायमर्थो विस्तरकेण खोपज्ञशब्दानुशासनविवरण इति, ततः शाब्दव्यवहारापेक्षया यथावस्थितार्थप्रतिपादनात् प्रज्ञापनीयं भाषा, दुष्टविवक्षातः समुत्पत्तेरभावात् परपीडाहेतुत्वाभावाच्च न मृषेति । 'अह मंते !' इत्यादि, अथ भदन्त ! या च रुयाज्ञापनी आज्ञाप्यते— आज्ञासम्पादने प्रयुज्यतेऽनया सा आज्ञापनी स्त्रिया आज्ञापनी ख्याज्ञापनी, स्त्रिया आदेशदायिनीत्यर्थः, या च पुमाज्ञापनी नपुंसकाज्ञापनी, प्रज्ञापनीयं भाषा नैषा भाषा मृषेति ?, अत्रेदं संशयकारणं-किल सत्या भाषा प्रज्ञापनी भवति, इयं च भाषा आज्ञासम्पादनक्रियायुक्ताभिधायिनी, आज्ञाप्यमानश्च ख्यादिः तथा कुर्यान्न वा ?, ततः संशयमापन्नो विनिश्चयाय पृच्छति, अन भगवानाह - 'हंता गोयमा !' इत्यादि, अक्षरगमनिका सुगमा, भावार्थस्त्वयं - आज्ञापनी भाषा द्विधा - परलोका
For Penal Use On
~103~