________________
आगम
(१५)
प्रत
सूत्रांक
[१६२]
दीप
अनुक्रम [३७६]
मूलं [१९६२ ]
पदं [११],
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापना
याः मल
य० वृत्ती.
॥२४९॥
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
-
· उद्देशक: [ - ], -------दारं [-],
वस्थितार्थप्रतिपादकतया सत्यत्वात्, तथापि जात्यभिधायिनीयं भाषा, जातिश्च त्रिलिङ्गार्थसमवायिनी, ततो जास्यभिधानेन त्रिलिङ्गा अपि यथासम्भवं विशेषा अभिहिता भवन्तीति भवति यथावस्थितार्थाभिधानादियं प्रज्ञापनी भाषेति यदप्युक्तम् - किन्तु पुंलिङ्गगर्भा इति, तत्र शब्दे लिङ्गव्यवस्था लक्षणवशात्, लक्षणं च 'स्त्रीपुंनपुंसकसहोती परं' तथा 'ग्राम्याशिशुद्विखुरस स्त्री प्राय' इत्यादि, ततो भवेत् क्वचित् शब्दे लक्षणवशात् स्त्रीत्वं कचित् पुंस्त्वं कचित् नपुंसकत्वं वा, परमार्थतः पुनः सर्वोऽपि जातिशब्दस्त्रिलिङ्गानप्यर्थान् तत्तद्देशकालप्रस्तावादिसामर्थ्यवशादभिधत्ते इति न कश्चिद्दोषः, न चेयं परपीडाजनिका नापि विप्रतारणादिदुष्टविवक्षासमुत्था ततो न मृषेति प्रज्ञापनी । 'अह भंते ! जा य इत्थिवऊ' इत्यादि, अथेति प्रश्ने भदन्त । इत्यामन्त्रणे, या च स्त्रीवाक्- स्त्रीलिङ्गप्रतिपादिका भाषा खद्दा लतेत्यादिलक्षणा या पुरुषवाकू घटः पट इत्यादिरूपा या च नपुंसकवाक् कुव्यं काण्डमित्यादिलक्षणा प्रज्ञापनीयं भाषा नैषा भाषा मृषेति ?, किमत्र संशयकारणं येनेत्थं पृच्छति ? इति चेत्, उच्यते, इह खट्ाघटकुख्यादयः शब्दाः यथाक्रमं स्त्रीपुंनपुंसकलिङ्गाभिधायिनः, स्त्रीपुंनपुंसकानां च लक्षणमिदम् - "योनिर्मृदुत्वमस्थैर्य, मुग्धता क्लीयता स्तनौ । पुंस्कामितेति लिङ्गानि, सप्त स्त्रीत्वे प्रचक्षते ॥ १ ॥ मेहनं खरता दाढ, शौण्डीर्य श्मश्रु धृष्टता । स्त्री कामितेति लिङ्गानि, सप्त पुंस्त्वे प्रचक्षसे ॥२॥ स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ॥ ३ ॥” तथाऽन्यत्राप्युक्तम्- “स्तनकेशवती स्त्री स्यालोमशः पुरुषः स्मृतः । उभयोरन्तरं यच, तत्र भावे नपुंसकम् ॥ १ ॥”
Education International
For Parts Only
~102~
११ भाषा
पर्द
॥२४९॥