________________
आगम
(१५)
प्रत
सूत्रांक
[२५]
+
गाथा:
दीप
अनुक्रम
[१३३
१३४]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:)
पदं [१], ------------- FÈNT: [-]), ------------- ¿T2 [-], ------------- मूलं [... २५] + गाथा : ( ९३-९४ ) पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापनायाः मल
य० वृत्ती.
॥ ३८ ॥
Jan Eucator
जमते जीवः सोऽपि च पत्रे प्रथमतयेति स एवं प्रथमपत्रतयाऽपि परिणमते इत्येकजीवकर्तृके मूलप्रथमपत्रे इति, आह-यद्येवं 'सव्वोऽवि किसलओ खलु उग्गममाणो अनंतभ मणिओ' इत्यादि वक्ष्यमाणं कथं न विरुध्यते ?. उच्यते, इह बीजजीवोऽन्यो वा बीजमूलत्वेनोत्पद्य तदुत्सूनावस्थां करोति, ततस्तदनन्तरभाविनीं किसलयावस्थां नियमतोऽनन्ता जीवाः कुर्वन्ति, पुनश्च तेषु स्थितिक्षयात्परिणतेषु असावेव मूलजीवोऽनन्तजीवतनुं खशरीरतया परिणमध्य तावद्वर्द्धते यावत्प्रथमपत्रमिति न विरोधः, अन्ये तु व्याचक्षते - प्रथमपत्रमिह याऽसौ बीजस्य समुच्छूनावस्था, तेन एकजीवकर्त्तृके मूलप्रथमपत्रे इति, किमुक्तं भवति १- मूलसमुच्छ्रनावस्थे एकजीवकर्तृके, एतच नियमप्रदर्शनार्थयुक्तं - मूलसमुच्छ्रनावस्थे एकजीव परिणामिते एव, शेषं तु किसलयादि नावश्यं मूलजीवपरिणामाविर्भावितमिति, ततः सव्वोऽवि किसलओ खलु उग्गममाणो अनंतओ गणिओ' इत्याद्यपि वक्ष्यमाणमविरुद्धं, मूलसमुच्छ्रनावस्थानिर्वर्त्तनारम्भकाले किसलयत्वाभावादिति, आह-प्रत्येकशरीरवनस्पतिकायिकानां सर्वकालं शरीरावस्थामधिकृत्य किं प्रत्येकशरीरत्वमुत कस्मिंश्चिदवस्थाविशेषे अनन्तजीवत्वमपि सम्भवति ?, तथा साधारणवनस्पतिकायिकानामपि किं सर्वकालमनन्तजीवत्वमुत कदाचित् प्रत्येकशरीरत्वमपि भवति १, तत आह— 'सच्चोऽची त्यादि, इह सर्वशब्दोऽपरिशेषकाची, सर्वोऽपि वनस्पतिकायः प्रत्येकशरीरः साधारणो वा किसलयावस्थामुपगतः सन् अनन्तकावस्तीर्थ करगणधरैर्मणितः, स एव किसलयरूपोऽनन्तकायिकः प्रवृद्धिं गच्छन् अनन्तो वा भवति परीत्तो वा, कथम् ?,
For Parts Only
~88~
१ प्रज्ञापनापदे बी
जाद्यपत्र
किशलय
स्वरूपं
(सू. २५)
॥ ३८ ॥
Gretary org