________________
आगम (१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ------------ उद्देशक: -,------------दारं -1, ------------ मूलं [...२५] + गाथा: (९३-९४) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२५]
गाथा:
सङ्खयेयजीवात्मक इति ॥९२॥ आह-किं बीजजीव एव मूलादिजीवो भवति उतान्यस्तस्मिन्नपक्रान्ते उत्पद्यते । इति परप्रश्नमाशङ्कयाहबीए जोणिम्भूए जीवो वक्कमइ सो व अनो वा । जोऽविय मूले जीवो सोविय पत्ते पढमयाए ।१३।। सबोऽवि किसलओ खलु उग्गममाणो अणंतओ भणिओ । सो चेव विवहृतो होइ परित्तो अणंतो वा ।। ९४॥ बीजे योनिभूते-योन्यवस्था प्राप्ते, योनिपरिणाममजहतीति भावः, बीजस्य हि द्विविधाऽवस्था, तद्यथा-योन्य-| वस्था अयोन्यवस्था च, तत्र यदा बीजं योन्यवस्था न जहाति अथ च उज्झितं जन्तुना तदा तत् योनिभूतमित्यभि-IN धीयते, उज्झितं च जन्तुना निश्चयतो नावगन्तुं शक्यते ततोऽनतिशायिना सम्प्रति सचेतनमचेतनं वा अविध्वस्तयोनि योनिभूतमिति व्यवह्रियते, विध्वस्तयोनि तु नियमादचेतनत्वादयोनिभूतमिति, अथ योनिरिति किमभिधीयते ?, उच्यते, जन्तोरुत्पत्तिस्थानं अविध्वस्तशक्तिक-तत्रस्थजीवपरिणमनशक्तिसम्पन्नमिति भावः, तस्मिन् बीजे योनिभूते जीवो 'व्युत्क्रामति' उत्पद्यते ' स एव' पूर्वको बीजजीवः अन्यो वा आगत्य तत्रोत्पद्यते, किमुक्त। भवति ?-यदा बीजजीवनिर्वर्तकेन जीवेन खायुषः क्षयात् बीजपरित्यागः कृतो भवति, तस्य च बीजस्य पुनरम्बु-19 कालावनिसंयोगरूपसामग्रीसंभवस्तदा कदाचित्स एव प्राक्तनो वीजजीवो मूलादिनामगोत्रे उपनिवध्य बीजे उत्पद्यते-तत्रागत्य परिणमति, कदाचिदन्यः पृथिवीकायिकादिजीवः, 'योऽपि च मूले जीव इति' य एव मूलतया परि
दीप अनुक्रम [१३३१३४]
~87