SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ---------------- उद्देशक: -,---------------- दारं -1, ---------------- मूलं [१५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक र्याप्सा उच्छ्रासपर्याप्त्याउपर्याप्सा एव नियन्ते, ततो न स्पष्टतरवर्णादिविभाग इत्यसंप्राप्ता इत्युक्तं, ननु कस्मादुच्छ्रासपर्याप्त्यैवापर्याप्सा म्रियन्ते नार्वाक् शरीरेन्द्रियपर्याप्तिभ्यामपर्यासा अपि ?, उच्यते, यस्मादागामिभवायुर्ववा म्रियन्ते सर्व एव देहिनो नाबवा, तच्च शरीरेन्द्रियपर्याप्तिभ्यां पर्याप्तानां बन्धमायाति नान्यथेति, अन्ये तु व्याचक्षते-सामान्यतो वर्णादीनसंप्राप्ता इति, तच न युक्तं, यतः शरीरमात्रभाविनो वर्णादयः, शरीरं च शरीरपर्याप्त्या सातमिति । 'तत्व णं जे ते पज्जत्तगा'इत्यादि, तत्र ये ते पर्याप्तका:-परिसमाप्तखयोग्यसमस्तपर्यासयः, एतेषां 'वर्णादेशेन' वर्णभेदविवक्षया एवं गन्धादेशेन रसादेशेन स्पर्शादेशेन 'सहस्रायशः' सहस्रसङ्ख्यया विधानानि-भेदाः, तद्यथा-वर्णाः कृष्णादिभेदात्पञ्च गन्धौ सुरभीतरभेदावी रसाः तिक्तादयः पञ्च स्पर्शा मृदुकर्कशादयोऽष्टी, एकैकस्मिंश्च वर्णादौ | तारतम्यभेदेनानेकेऽवान्तरभेदाः, तथाहि-भ्रमरकोकिलकज्जलादिषु तरतमभावात् कृष्णकृष्णतरकृष्णतमेत्यादिरूप-IN तया अनेके कृष्णभेदाः, एवं नीलादिष्वप्यायोज्यं, तथा गन्धरसस्पर्शष्वपि, तथा परस्परं वर्णानां संयोगतो धूसरकबुरत्वादयोऽनेकसङ्ख्या भेदाः, एवं गन्धादीनामपि परस्परं गन्धादिभिः समायोगाद् , अतो भवन्ति वर्णाद्यादेशैः सहसायशो भेदाः, 'सोजाई जोणिप्पमुहसयसहस्साईति सङ्खोयानि योनिप्रमुखाणि-योनिद्वाराणि शतसहस्राणि, तथाहि-एकैकस्मिन् वर्णे गन्धे रसे स्पर्श च संवृता योनिः पृथिवीकायिकानां, सा पुनखिधा-सचित्ता अचित्ता मिश्रा च, पुनरेकैका त्रिधा-शीता उष्णा शीताष्णा, शीतादीनामपि प्रत्येकं तारतम्यभेदादनेकभेदत्वं, केवलमेवं विशि गाथा: दीप अनुक्रम [२४-२९] ~67~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy