SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना". पदं [१], ---------------- उद्देशक: -, ---------------- दारं -1, ---------------- मूलं [६,७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [६-७] seseseaeeeeeeee कणानुषक्ते प्रपतति शीते केनाप्यविषयोपनिपातमद्य शीतमिति विभाव्य धर्मार्थिना शिरसि वस्ने प्रक्षिप्ते तस्य सपरिप्र-12 हता भवेत् , न चैतदिष्टं, तस्मान्न वस्त्रसंसर्गमात्रं परिग्रहः, किन्तु मूळ, सा च स्त्रीणां वस्त्रादिषु न विद्यते, धर्मोपकरण| मात्रतया तस्योपादानात् , न खलु ता वस्त्रमन्तरेणात्मानं रक्षयितुमीशते, नापि शीतकालादिषु व्यग्रदशायां खाध्या[यादिक कतु, ततो दीर्घतरसंयमपरिपालनाय यतनया वस्त्रं परिभुजाना न ताः परिग्रहवत्यः, अथोच्येत-सम्भवति || नाम खीणामपि सम्यग्दर्शनादिकं रनत्रयं.परं न तत सम्भवमात्रेण मुक्तिपदप्रापकं भवति,किन्तु प्रकप्राप्तम् ,अन्यथा श दीक्षानन्तरमेव सर्वेषामप्यविशेषेण मुक्तिपदप्राप्तिप्रसक्तिः, सम्यग्रदर्शनादिरलत्रयप्रकर्षश्व स्त्रीणामसम्भवी, ततोन निवाणमिति, तदप्ययुक्तम् , स्त्रीषु रखत्रयप्रकर्षासम्भवे ग्राहकप्रमाणस्थाभावात् ,न खलु सकलदेशकालन्यात्या खी। रत्नत्रयप्रकोसम्भवग्राहकं प्रमाणं विज़म्भते, देशकालविप्रकृष्टेषु प्रत्यक्षस्थाप्रवृत्तेः, तदप्रवृत्ती चानुमानस्याप्यसम्भवात्, नापि तासु रत्नत्रयप्रकर्षासम्भवप्रतिपादकः कोऽप्यागमो विद्यते, प्रत्युत सम्भवप्रतिपादकः स्थाने स्थानेऽस्ति,यथेदर्भव प्रस्तुतं सूत्रं, ततो न तासां रतत्रयप्रकर्षासम्भवः, अथ मन्येथाः-स्वभावत एवातपेनेव छाया विरुध्यते स्त्रीत्वेन सह रत्नत्रयप्रकर्षः, ततस्तदसम्भवोऽनुमीयते, तदयुक्तमुक्तं, युक्तिविरोधात् , तथाहि-रत्नत्रयप्रकर्षः स उच्यते यतोऽन नन्तरं मुक्तिपदप्राप्तिः, स चायोग्ययस्थाचरमसमयभावी, अयोग्यवस्था चास्माशामप्रत्यक्षा, ततः कर्थ विरोधगतिः, न हि अदृष्टेन सह विरोधः प्रतिपतुं शक्यते, मा प्रापत्पुरुषेष्वपि प्रसङ्गः, ननु जगति सर्वोत्कृष्टपदप्राप्तिः सर्वोत्कृष्टेना दीप अनुक्रम [१५-१६] ~53~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy