________________
आगम
(१५)
प्रत
सूत्रांक
[६-७]
दीप
अनुक्रम
[१५-१६]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ (मूलं + वृत्तिः)
पदं [१],
------------- उद्देशकः [ - ],
, दारं [ - ], -------
- मूलं [६,७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५],उपांगसूत्र-[४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
॥ २० ॥
| ततस्तस्मिन् स्त्रीलिङ्गे वर्त्तमानाः सन्तो ये सिद्धास्ते स्त्रीलिङ्गसिद्धाः, एतेन यदाहुराशाम्बराः 'न स्त्रीणां निर्वाण' मिति, तदपास्तं द्रष्टव्यं, स्त्रीनिर्वाणस्य साक्षादनेन सूत्रेणाभिधानात् तत्प्रतिषेधस्य युक्तया अनुपपन्नत्वात्, तथाहि मुक्तिपथो ज्ञानदर्शनचारित्राणि 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इति वचनात् (तत्त्वार्थे अ० १ सू० १ ), सम्यग्दर्श नादीनि च पुरुषाणामिव स्त्रीणामप्यविकलानि, तथाहि दृश्यन्ते स्त्रियोऽपि सकलमपि प्रवचनार्थमभिरोचयमानाः, 5) जानते च पडावश्यककालिकोत्कालिकादिभेदभिन्नं श्रुतं, परिपालयन्ति सप्तदशप्रकारम कलङ्कं संयमं धारयन्ति च | देवासुराणामपि दुर्धरं ब्रह्मचर्य, तप्यन्ते च तपांसि मासक्षपणादीनि ततः कथमिव न तासां मोक्षसम्भवः ?, स्यादेतत्-अस्ति स्त्रीणां सम्यग्दर्शनं ज्ञानं वा न पुनधारित्रं, संयमाभावात्, तथाहि - स्त्रीणामवश्यं वस्त्रपरिभोगेन भवितव्यमन्यथा विवृताङ्गयस्तास्तिर्यक्रस्त्रिय इव पुरुषाणामभिभवनीया भवेयुः, लोके च गर्होपजायते, ततोऽवश्यं ताभिर्वखं परिभोक्तव्यं, वस्त्रपरिभोगे च सपरिग्रहता, सपरिग्रहत्वे च संयमाभाव इति, तदसमीचीनम्, सम्यक् | सिद्धान्तापरिज्ञानात्, परिग्रहो हि परमार्थतो मूर्द्धाऽभिधीयते, 'मुच्छा परिग्गहो बुत्तो' इतिवचनात् तथाहिमूर्च्छारहितो भरत चक्रवर्ती सान्तःपुरोऽप्यादर्शकगृहेऽवतिष्ठमानो निष्परिग्रहो गीयते, अन्यथा केवलोत्पादासम्भवात्, अपि च-यदि मूर्छाया अभावेऽपि वस्त्रसंसर्गमात्रं परिग्रहो भवेत् ततो जिनकल्पं प्रतिपन्नस्य कस्यचित्साधोस्तुषार१ आशाम्बरकृतगोमटसारे--अडयाला पुंवेया, इत्थीवेया हवन्ति चालीसा । बीस नपुंसकवेया, समएणेगेण सिज्झन्ति ॥ १ ॥
प्रज्ञापनायाः मल
य० वृत्ती.
Education International
For Park Use Only
~ 52~
१ प्रज्ञाप
नापदे अनन्तरसि
प्रज्ञा.
(सू. ७)
॥ २० ॥