SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना". पदं [१], ---------------- उद्देशक: -, ---------------- दारं -1, ---------------- मूलं [६,७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [६-७] भवति ततो लिङ्गं देवता वा प्रयच्छति गुरुसन्निधौ वा गत्वा प्रतिपद्यते, यदि च एकाकिविचरणसमर्थः इच्छा वार तस्य तथारूपा जायते तत एकाकी विहरति, अन्यथा गच्छवासेऽवतिष्ठते, अथ पूर्वाधीतं श्रुतं तम्य न भवति तहि। हा नियमाद्दुरुसन्निधौ गत्वा लिङ्गं प्रतिपद्यते गच्छं चावश्यं न मुञ्चति, तथा चोक्तम्-"पुच्चाहीयं सुर्य से हवइ वा न वा, जइसे नत्थि तो लिङ्गं नियमा गुरुसन्निहे पडिवज्जइ गच्छे य विहरइत्ति, अह पुचाधीयसुयसम्भवोऽत्थि तो से लिदेवया पडियच्छा गरुसन्निहे वा पडिवजह, जइ य एगविहारविहरणसमत्थो इच्छा वा से तो एको चेव विहरह, अन्यथा गच्छे विहरद"त्ति प्रत्येकबुद्धानां तु पूर्वाधीतं श्रुतं नियमतो भवति, तच जघन्यत एकादशाङ्गानि, उत्कर्षतः किञ्चिन्यूनानि दश पूर्वाणि, तथा लिङ्गं तस्मै देवता प्रयच्छति लिकरहितो वा कदाचिद्भवति, तथा 18चोक्तम्-"पत्तेयबुद्धाणं पुवाहीयं सुयं नियमा हवइ, जहन्नेणं इक्कारस अशा, उकोसेणं भिन्नदसपुचा,लिङ्गं च से देव-13 या पयच्छइ, लिङ्गवजिओ वा भवइ, जओ भणियं-रुप्पं पत्तेयबुद्धा" इति । तथा बुद्धा-आचार्यास्तैबाधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः। एते च सर्वेऽपि केचित्खीलिङ्गसिद्धाः, स्त्रिया लिङ्गं स्त्रीलिङ्गं,स्त्रीत्वस्योपलक्षणमित्यर्थः, तच त्रिधा, तद्यथा-वेदः शरीरनिवृत्तिर्नेपथ्यं च, तत्रेह शरीरनिवृत्त्या प्रयोजनम् , न वेदनेपथ्याभ्यां, वेदे सति | सिद्धत्वाभावात् , नेपथ्यस्य चाप्रमाणत्वात् , आह च नन्यध्ययनचूर्णिकृत्-"इत्थीए लिङ्गं इथिलिङ्गं,इत्थीए उवल-1 क्खणंति वुत्तं भवइ, तं च तिविह-वेदो सरीरनिवित्ती नेवत्थं च, इह सरीरनिबत्तीए अहिगारो, न वेयनेवत्थेहिति ।। दीप अनुक्रम [१५-१६] ~51~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy