SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [६-७] दीप अनुक्रम [१५-१६] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ (मूलं + वृत्तिः) ------------- उद्देशकः [-], , दारं [ - ], [---------- - मूलं [६,७] पदं [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५],उपांगसूत्र-[४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापना याः मल य० वृत्ती. ॥ २१ ॥ ध्यवसायेनावाप्यते, नान्यथा, एतचोभयोरप्यावयोरागमप्रामाण्यवलतः सिद्धं, सर्वोत्कृष्टे च द्वे पदे- सर्वोत्कृष्टदुःखस्थानं सर्वोत्कृष्टसुखस्थानं च तत्र सर्वोत्कृष्टदुःखस्थानं सप्तमनरकपृथ्वी, अतः परं परमदुःखस्थानस्याभावात्, सर्वोत्कृष्टसुखस्थानं तु निःश्रेयसं तत्र स्त्रीणां सप्तमनरकपृथिवीगमनमागमे निषिद्धं, निषेधस्य च कारणं तद्गमनयोग्यतथाविधसर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, ततः सप्तमपृथिवीगमनवत्त्वाभावात्, सम्मूर्छिमादिवत्, अपि च-यासां वादलब्धौ विकुर्वणत्वादिलच्धी पूर्वगतश्रुताधिगतौ च न सामर्थ्यमस्ति तासां मोक्षगमनसामर्थ्यमित्यतिदुःश्रद्धेयं, तदेतदयुक्तं, यतो यदि नाम स्त्रीणां सप्तमनरकपृथिवीगमनं प्रति सर्वोत्कृष्टम नोवीर्यपरिणत्यभावः, तत एतावता कथमवसीयते-नि:| श्रेयसमपि प्रति तासां सर्वोत्कृष्टम नोवीर्यपरिणत्यभावो न हि यो भूमिकर्षणादिकं कर्मकर्तुं न शक्नोति स शास्त्राण्यप्यवगाढुं न शक्नोतीति प्रत्येतुं शक्यम्, प्रत्यक्षविरोधात् अथ सम्मूर्छिमादिषूभयत्रापि सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो दृष्टः ततोऽत्राप्यवसीयते, ननु यदि तत्र दृष्टस्तर्हि कथमत्राचसीयते ?, न खलु वहिर्व्याप्तिमात्रेण हेतुर्गमको भवति, | किन्त्वन्तर्व्याप्या, अन्तर्व्याप्तिश्च प्रतिबन्धबलेन, न चात्र प्रतिबन्धो विद्यते, न खलु सप्तमपृथिवीगमनं निर्वाणगमनस्य कारणं, नापि सप्तमपृथिवीगमनाविनाभावि निर्वाणगमनं, चरमशरीरिणां सप्तमपृथिवीगमन मन्तरेणैव निर्वाणगमनभावात् न च प्रतिबन्धमन्तरेणैकस्याभावेऽन्यस्यावश्यमभावः, मा प्रापत् यस्य तस्य वा कस्यचिदभावे सर्वस्याभावप्रसङ्गः, यद्येवं तर्हि कथं सम्मूर्छिमादिषु निर्वाणगमनाभाव इति ?, उच्यते, तथाभवस्वाभाव्यात्, तथाहि- For Parts Only ~54~ १ प्रज्ञाप नापदे अनन्तरसिप्रज्ञा. (सू. ७) ॥ २१ ॥
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy