________________
आगम
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [५], --------------- उद्देशक: [-], -------------- दारं --------------- मूलं [११२-११७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[११२-११७]
दीप
मयेऽवगाहनेति न तेषां जघन्यावगाहना लभ्यते किं तु सत्येयवर्षायुषां, सयवर्षायुषश्च स्थित्या त्रिस्थानपतिताः, एतच भावितं प्राक, तत उक्तं स्थित्या त्रिस्थानपतिता इति, 'दोहिं नाणेहिं दोहिं अन्नाणेहिं' इति जघन्यावगाहनो हि तिर्यपञ्चेन्द्रियः सङ्ख्येयवर्षायुष्कोऽपर्याप्तो भवति सोऽपि चाल्पकायेषु मध्ये समुत्पद्यमानस्ततस्तस्यावधिविभङ्गज्ञानासंभवात् द्वे ज्ञाने द्वे अज्ञाने उक्ते, यस्तु विभङ्गज्ञानसहितो नरकादुत्य सोयवर्षायुकेषु तिर्यक्रपञ्चेन्द्रियेषु मध्ये समुत्पद्यमानो वक्ष्यते स महाकायेषूत्पद्यमानो द्रष्टव्यः नाल्पकायेषु, तथाखाभाब्यात्, अन्यथाऽधिकृतसूविरोधः, उत्कृष्टावगाहनतिर्यपञ्चेन्द्रियसूत्रे 'तिहिं नाणेहिं तिहिं अन्नाणेहिँ' इति त्रिभि नैखिभिरज्ञानैश्च षट्स्थानपतिताः, तत्र त्रीणि अज्ञानानि कथमिति चेत्, उच्यते, इह यस्य योजनसहस्रं शरीरावगाहना स उत्कृष्टावमाहनः स च सयवर्षायुष्क एव भवति पर्याप्तश्च, तेन तस्य त्रीणि ज्ञानानि त्रीण्यज्ञानानि च संभवन्ति, स्थित्या
पि चासावुत्कृष्टायगाहनः त्रिस्थानपतितः, सस्पेयवर्षायुष्कत्वात् , अजघन्योत्कृष्टावगाहनसूत्रे स्थित्या चतु:स्थानप|तितः, यतोऽजघन्योत्कृष्टायगाहनोऽसयेयवर्षायुष्कोऽपि लभ्यते, तत्रोपपद्यते प्रागुक्तयुक्त्या चतुःस्थानपतितत्वं,
जघन्यस्थितिकतिर्यपश्चेन्द्रियसूत्रे द्वे अज्ञाने एव वक्तव्ये न तु ज्ञाने, यतोऽसौ जघन्यस्थितिको लम्ध्यपर्याप्तक एव |भयति न च तन्मध्ये सासादनसम्यग्दृष्टेरुत्पाद इति, उत्कृष्टस्थितिकतिर्यक्रपञ्चेन्द्रियसूत्रे 'दो नाणा दो अन्नाणा' इति, उत्कृष्टस्थितिको हि तिर्यक्रपञ्चेन्द्रियस्त्रिपल्योपमस्थितिको भवति, तस्य च द्वे अज्ञाने तापन्नियमेन यदा पुनः
अनुक्रम [३१६-३२१]
~399~