SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: -1, -------------- दारं [२७], -------------- मूलं [१२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: पत सूत्राक [९२] दीप 'एएसिणं भंते ! परमाणुपोग्गलाणं संखेजपएसियाणं' इत्यादि पाठसिद्ध, नवरमत्राल्पबहुत्वभावनायां सर्वत्र तथाखाभाव्यं कारणं वाच्यं । सम्प्रत्येतेषामेव क्षेत्रप्राधान्येनाल्पबहुत्वमाह-इह क्षेत्राधिकारतः क्षेत्रस्य प्राधान्यात परमाणुकाद्यनन्ताणुकस्कन्धा अपि विवक्षितकप्रदेशावगाढा आधाराधेययोरभेदोपचारादेकद्रव्यत्वेन व्यवहियन्ते, ते इत्थंभूता एकप्रदेशावगाढाः पुद्गलाः-पुद्गलद्रव्याणि सर्वस्तोकानि, लोकाकाशप्रदेशप्रमाणानीत्यर्थः, न हि स कश्चिदे|वंभूत आकाशप्रदेशोऽस्ति य एकप्रदेशावगाहनपरिणामपरिणतानां परमाण्वादीनामवकाशदानपरिणामेन परिणतो ना वर्तते इति, तेभ्यः सञ्जयेयप्रदेशावगाढाः पुद्गला द्रव्यार्थतया समवेयगुणाः, कथमिति चेत् ?, उच्यते, इहापि क्षेत्रस्य प्राधान्यात् यणुकाद्यनन्ताणुकस्कन्धा द्विप्रदेशावगाढा एकद्रव्यत्वेन विवक्ष्यन्ते, तानि च तथाभूतानि पुद्गलद्रव्याणि पूर्वोक्तेभ्यः सवधेयगुणानि, तथाहि-सर्वलोकप्रदेशातत्त्वतोऽसत्येया अपि असत्कल्पनया दश परिकल्प्यन्ते, तेच प्रत्येकचिन्तायां दर्शवेति दश एकप्रदेशावगाढानि पुद्गलद्रव्याणि लब्धानि, तेष्वेव च दशसु प्रदेशेषु अन्यग्रहणान्यमोक्षणद्वारेण बहवो द्विकसंयोगा लभ्यन्ते इति भवन्त्येकप्रदेशावगाढेभ्यो द्विप्रदेशावगाढानि पुद्गलद्रव्याणि सङ्ख्येय-18 गुणानि एवं तेभ्योऽपि त्रिप्रदेशावगाढानि एवमुत्तरोत्तरं यावदुत्कृष्टसङ्ख्येयप्रदेशावगाढानि, ततः स्थितमेतत्-एकप्रदेशावगाढेभ्यः सङ्खयेयप्रदेशावगाढाः पुद्गलाः द्रव्यार्थतया सङ्ख्येयगुणा इति, एवं तेभ्योऽसहयेयप्रदेशावगाढा पुद्गला द्रव्यार्थतया असङ्ख्येयगुणाः, असङ्ख्यातस्थासङ्ख्यातभेदभिन्नत्वात् , द्रव्यार्थतासूत्रं प्रदेशार्थतासूत्रं द्रव्यपर्याया अनुक्रम [२९६] ~333~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy