________________
आगम
(१५)
प्रत
सूत्रांक
[30]
दीप
अनुक्रम [२९४]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:)
पदं [३], --------------उद्देशक: [-],
दारं [२६],
मूलं [१०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
इहायुःकर्मबन्धकाबन्धकानां पर्याप्तापर्याप्तानां सुसजायतां समवहतासमवहतानां सातवेदका सातवेदकानां इन्द्रियोपयुक्त नोइन्द्रियोपयुक्तानां साकारोपयुक्तानाकारोपयुक्तानां समुदायेनाल्पबहुत्वं वक्तव्यं तत्र प्रत्येकं तावद् ब्रूमः येन समुदायेन सुखेन तदवगम्यते, तत्र सर्वस्तोकाः आयुषो बन्धका अवन्धकाः सङ्ख्येयगुणाः, यतोऽनुभूयमानभवायुषि त्रिभागावशेषे पारभविकमायुर्जीवा बनन्ति त्रिभागविभागाद्यवशेषे वा ततो द्वौ त्रिभागावनन्धकाल एकस्त्रिभागो बन्धकाल इति बन्धकेभ्योऽबन्धकाः सङ्ख्येयगुणाः । तथा सर्वस्तोका अपर्याप्तकाः पर्याप्तकाः सङ्ख्येयगुणाः, एतच सूक्ष्मजीवानधिकृत्य वेदितव्यं सूक्ष्मेषु हि वालो व्याघातो न भवति ततस्तद्भावाद् बहूनां निष्पत्तिः स्तोकानामेव चानिष्पत्तिः । तथा सर्वस्तोकाः सुप्ताः, जागराः सङ्ख्येयगुणाः, एतदपि सूक्ष्मानेकेन्द्रियानधिकृत्य वेदितव्यं यस्मादपर्याप्ताः सुप्ता एव लभ्यन्ते, पर्याप्ता जागरा अपि, [उक्तं च मूलटीकाया- "जम्हा अपजत्ता सुत्ता लम्भंति, केइ अपजत्तगा जेसिं संखिजा समया अतीता ते य थोवा इयरेऽवि थोवगा चेव सेसा, जागरा पज्जत्ता ते संखिज्जगुणा" इति ] जागराः पर्याप्तास्तेन सङ्ख्येयगुणा इति । तथा समवहताः सर्वस्तोकाः, यत | इह समवहता मारणान्तिकसमुद्घातेन परिगृह्यन्ते, मारणान्तिकश्च समुद्घातो मरणकाले न शेषकालं, तत्रापि न | सर्वेषामिति सर्वस्तोकाः, तेभ्योऽसमवहता असङ्ख्येयगुणाः, जीवनकाल स्यातिबहुत्वात् । तथा सर्वस्तोकाः सातवेदकाः, यत इह बहवः साधारणशरीरा अल्पे च प्रत्येकशरीरिणः, साधारणशरीराश्च बहवोऽसातवेदकाः खल्पाः सातवेदिनः
Education Internationa
For Parata Use Only
~323~