________________
आगम
(१५)
प्रत
सूत्रांक
[८४]
दीप अनुक्रम [ २८८]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ (मूलं + वृत्तिः)
पदं [३], --~-~~-~~~-~~-~- उद्देशक: [-],
दारं [२५],
• मूलं [८४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रतरद्वयं स्पृशन्ति ततः प्रागुक्तेभ्योऽसङ्ख्येयगुणाः, तेभ्यस्त्रैलोक्ये - त्रैलोक्यसंस्पर्शिनः सङ्ख्येयगुणाः, यतो ये ऊर्द्धलोके तिर्यक्पञ्चेन्द्रिया भवनपतित्वेनोत्पत्तुकामा ये च स्वस्थाने वैक्रियसमुद्घातेन मारणान्तिकप्रथमसमुद्घातेन वा तथाविधतीव्रप्रयत्नविशेषेण समयहतास्ते त्रैलोक्यसंस्पर्शिन इति सत्येयगुणाः, परस्थानसमवहतेभ्यः स्वस्थानसमयहतानां सङ्ख्वेयगुणत्वात्, तेभ्योऽधोलोकतिर्यग्लोके - अधोलोकतिर्यग्लोकसञ्ज्ञे प्रतरद्वयेऽसङ्ख्येयगुणाः, स्वस्थानप्रत्यासन्नतया तिर्यग्लोके गमनागमनभावतः स्वस्थानस्थितक्रोधादि समुद्घातगमनतश्च बहूनां यथोक्तप्रतरद्वयसंस्पर्शभावात्, तेभ्यस्तिर्यग्लोकेऽसोयगुणाः, समवसरणादौ यन्दननिमित्तं द्वीपेषु च रमणीयेषु क्रीडानिमित्तमागमनसंभवात् आगतानां च चिरकालमप्यवस्थानात्, तेभ्योऽघोलोकेऽसत्येयगुणाः, भवनवासिनामघोलोकस्य स्वस्थानत्वात् । एवं भवनवासिदेवीगतमप्यल्पबहुत्वं भावनीयं । सम्प्रति व्यन्तरगतमल्पबहुत्वमाह- क्षेत्रानुपातेन चिन्त्यमाना व्यन्तराः सर्वस्तोका ऊर्द्धलोके, कतिपयानामेव पण्डकवनादौ तेषां भावात्, तेभ्य ऊर्द्धलोकतिर्यग्लोके प्रतरद्वयरूपेऽसश्येयगुणाः केषांचित् स्वस्थानान्तर्वर्त्तितया अपरेषां स्वस्थानप्रत्यासन्नतया अन्येषां बहूनां मन्दरादिषु गमनागमनभावतो यथोक्तप्रतरद्वय संस्पर्शात् तेषां समुदायेन चिन्त्यमानानामतिबहुत्वभावात्, तेभ्यस्त्रैलोक्ये सङ्ख्येयगुणाः, यतो लोकत्रयवर्त्तिनोऽपि व्यन्तरास्तथाविधप्रयत्नविशेषवशतो वैक्रियसमुद्घातेन समवहताः सन्तस्त्रीनपि लोकानात्मप्रदेशैः स्पृशन्ति, ते च प्रागुक्तेभ्योऽतिबहव इति सत्येयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके प्रतर
Education Intention
For Parts Only
~311~