SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [ ५४ ] + गाथाः दीप अनुक्रम [२३५-२५६] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:) पदं [२], ------------- FÈRT: [-], ---------- ¿T2 [-], ------------ - मूलं [ ५४ ] + गाथा : (१५०- १७०) पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः ॥१०९ ॥ प्रज्ञापना- 'चत्तारि रयणीओ' इत्यादि, चतस्रो रत्नयो रतिश्च त्रिभागोना च सा बोद्धव्या एषा खलु सिद्धानामवगाहना : - भणिता मध्यमा । आह - जघन्यपदे सप्तहस्तोच्छ्रितानामागमे सिद्धिरुक्ता, तत एषा जघन्या प्राप्नोति, कथं य० वृत्ती. १ मध्यमा १, तदयुक्तं, वस्तुतच्चापरिज्ञानात्, जघन्यपदे हि सप्तहस्तानां सिद्धिरुक्ता तीर्थकरापेक्षया, सामान्यकेवलिनां तु हीनप्रमाणानामपि भवति, इदमपि चावगाहनामानं चिन्त्यते सामान्यसिद्धापेक्षया, ततो न कश्चिद्दोषः । 'एगा य होइ' इत्यादि, एका रत्त्रिः परिपूर्णा अष्टौ चाङ्गुलान्यधिकानि एषा भवति सिद्धानामवगाहना जघन्या, सा च कूर्मापुत्रादीनां द्विहस्तानामवसेया, यदिवा सप्तहस्तोच्छ्रितानामपि यत्र पीलनादिना संवर्तितशरीराणां, आह च भाष्यकृत् - "जेडा उ पंचधणुसयतणुस्स मज्झा व सत्तहत्यस्स । देहत्तिभागहीणा जहन्निया जा बिहत्थस्स ॥ १ ॥ सत्तूसियएस सिद्धी जहन्नओ कहमिदं विहत्थे ? । सा किर तित्थयरेसुं सेसाणं सिज्झमाणाणं ॥ २ ॥ ते पुण होज विहत्था कुम्मापुत्तादयो जहन्त्रेणं । अन्ने संवट्टियसत्तहत्थसिद्धस्स हीणत्ति ॥ ३ ॥” साम्प्रतमुक्तानुवादेनैव संस्थानलक्षणं सिद्धानामभिधित्सुराह -- ' ओगाहणाओ' इत्यादि, सुगमं, नवरं 'अनित्थंथं' इति इदंप्रकार मापन्नमित्थं इत्थं तिष्ठतीति इत्थंस्थं न इत्थंस्थं अनित्थंस्थं - वदनादिशुषिरप्रतिपूरणेन पूर्वाकारान्यथाभावतोऽनियता कारमिति भावः, योऽपि च सिद्धादिगुणेषु 'सिद्धे न दीहे न हस्से' इत्यादिना दीर्घत्वादीनां प्रतिषेधः कृतः सोऽपि पूर्वाकारापेक्षया संस्थानस्यानित्थंस्थत्वात् प्रतिपत्तव्यो न पुनः सर्वथा संस्थानस्याभावतः, आह च भाष्यकृत् - For Penal Use Only ~230~ २ स्थान पदे सिद्धाधिकारः सू. ५४ 1120311
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy