________________
आगम
(१५)
प्रत
सूत्रांक
[५० ]
दीप
अनुक्रम [२२५]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र- ४ (मूलं+वृत्तिः) पदं [२], |--------------- उद्देशक: [ - ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
मूलं [५० ]
याः मल
य० वृत्ती.
॥ ९९ ॥
प्रज्ञापना- २ वंशादिमयप्रच्छादनविशेषाद् वहिष्कृत मत्यन्ताविनष्ट च्छायत्वात् शोभते तथा तान्यपि विमानानीति भावः, तथा मणिकनकानां संबन्धिनी स्टूपिका- शिखरं येषां तानि मणिकनकस्तूपिकानि, ततः पूर्वपदाभ्यां सह विशेषणसमासः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकाम-मिष्यादिषु पुण्ड्राणि रतमयाश्रार्द्धचन्द्रा द्वारादिषु तैचित्राणि विकसितशतपत्र पुण्डरीकतिलकरत्नार्द्धचन्द्रचित्राणि, तथा मानामणिमयीभिर्दामभिरलङ्कृतानि नानामणिमयदामालङ्कृतानि, तथा अन्तर्बहिश्च श्लक्ष्णानि -मसृणानि तथा तपनीयंसुवर्णविशेषस्तन्मय्या रुचिरायाः बालुकायाः -- सिकतायाः प्रस्तटः - प्रस्तरो येषु तानि तपनीयरुचिरवालुकाप्रस्तटानि, तथा सुखस्पर्शानि शुभस्पर्शानि वा, शेषं प्राग्वत् यावत् 'बहस्सई चंदा' इत्यादि, बृहस्पतिचन्द्रसूर्यशुक्रशनैश्वररादधूमकेतुबुधाङ्गारकाः, कथंभूता ? इत्याह-तसतपनीय कनकवर्णा- ईषद्रक्तवर्णाः, तथा ये च महा-उक्तव्यतिरिक्ता ज्योतिश्चक्रे चारं चरन्ति केतवो ये च गतिरतिकाः ये चाष्टाविंशतिविधा नक्षत्रदेवगणासे सर्वेऽपि नानासंस्थानसंस्थिताः, चशब्दात् तपनीय कनकवर्णाः, तारकाः पञ्चवर्णाः, एते च सर्वेऽपि स्थितलेश्या - अवस्थिततेजोलेश्याकाः तथा ये चारिणः- चाररतास्तेऽविश्राममण्डलगतिकाः, तथा सर्वेऽपि प्रत्येकं नामाङ्केन- खखनामाङ्केन प्रकटितं चिह्नं मुकुटे येषां ते प्रत्येक [व] नामाङ्कप्रकटितचिह्नमुकुटाः, किमुक्तं भवति ! - चन्द्रस्य मुकुटे चन्द्रमण्डललाञ्छनं खनामाप्रकटितं सूर्यस्य सूर्यमण्डलं ग्रहस्य प्रहमण्डलं नक्षत्रस्य नक्षत्राकारं तारकस्य तारकाकारमिति ॥
Educator
--
दारं [-],
~ 210~
For Parts Only
२ स्थान
पदे ज्योतिष्कस्थानं सू. ५०
॥ ९९ ॥
nary or