SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ आगम (१५) सूत्रांक [४६ ] ཏྠཾ + अनुक्रम [२०३ -२०४] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र- ४ (मूलं+वृत्तिः) पदं [२], ------------- उद्देशक: [ - ], दारं [-], • मूलं [ ४६...] + गाथा (१२९) पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५]उपांगसूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः ----------- ------------ सो-मुकुटो येषां ते पूर्णकलशाङ्कितोफेसाः, तथा सिंहहयवरगजा अड्डा अर्थाद् भूषणेषु येषां ते सिंहहयवरगजाङ्काः, तथा मकरवर्द्धमान के नियुक्ते -भूषणेषु नियोजिते चित्रे - आश्चर्यभूते चिहे गते स्थिते येषां ते मकरवर्द्धमानकनियुक्तचित्रचिह्नगतास्ततः पूर्वपदैर्द्वन्द्वसमासः । पुनः सर्वे कथंभूताः ? इत्याह- 'सुरूपाः' शोभनं रूपं येषां ते तथा, अत्यन्त कमनीयरूपा इत्यर्थः, तथा 'महिडिया' इति महती ऋद्धिः - भवनपरिवारादिका येषां ते महर्द्धिकाः, तथा महती द्युतिः- शरीरगता आभरणगता च येषामिति महाद्युतयः, तथा महद् बलं - शारीरः प्राणो येषां ते महाबलाः, तथा महद्यशः ख्यातिर्येषां ते महायशसः, तथा महाननुभागः - सामर्थ्य शापानुग्रहविषयं येषां ते महानुभागाः, तथा 'महसक्या' इति महान् ईश- ईश्वर इत्याख्या-- प्रसिद्धिर्येषां ते महेशाख्याः, अथवा ईशनमीशो भावे घञ्प्रत्ययः ऐश्वर्यमित्यर्थः 'ईश ऐश्वर्ये' इति वचनात् तमीशम् - ऐश्वर्यमात्मानं ख्यान्ति- अन्तर्भूतव्यर्थतया ख्यापयन्तिप्रथयन्ति इति ईशाख्याः महान्तश्च ते ईशाख्याश्च महेशाख्याः, क्वचिद् 'महासोक्खा' इति पाठः तत्र महत् सौख्यं प्रभूतसवेद्योदयवशाद् येषां ते महासौख्याः, अन्ये पठन्ति - 'महाराक्खा' इति, तत्रायं शब्दसंस्कारो - महावाक्षाः, इयं चात्र पूर्वसूरिप्रदर्शिता व्युत्पत्तिः - आशुगमनादश्वो-मनः अक्षाणि - इन्द्रियाणि स्वस्वविषयव्यापकत्वात् अश्वश्च अक्षाणि चेत्यश्वाक्षाणि महान्त्यश्वाक्षाणि येषां ते महावाक्षाः, 'हारविराइयवच्छा' इति हारैर्विराजितं वक्षो येषां ते हारविराजितवक्षसः, 'कडगतुडियर्थभियभुया' इति कटकानि - कलाचिकाऽऽभरणानि त्रुटितानि - बाहुरक्षकास्तैः For Parts Only ~ 187~ wary.org
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy