SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२],------------- उद्देशक: [-1,----------- दारं -1, ------------ मूलं [४६...] + गाथा(१२९) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक याः मल- य० वृत्ती- [४६]] गाथा निरुपघातेति भावार्थः छाया-दीप्तिर्येषां तानि निष्कङ्कटच्छायानि, सप्रमाणि-खरूपतः प्रभावन्ति, समरीचीनि-IN वहिर्विनिर्गतकिरणजालानि, सोद्योतानि-बहिर्व्यवस्थितवस्तुस्तोमप्रकाशनकराणि, 'प्रसादीयानि' प्रसादाय-मन-II पदे भवनप्रसत्तये हितानि प्रसादीयानि-मनःप्रसत्तिकारीणीति भावः, तथा दर्शनीयानि-दर्शनयोग्यानि यानि पश्यतः बासिस्था नं सू.४६ चक्षुषी न श्रमं गच्छत इति तात्पर्यार्थः 'अभिरूपा' इति अभि-सर्वेषां द्रष्टणां मनःप्रसादानुकूलतया अभिमुखं रूपं येषां तानि अभिरूपाणि अत्यन्तकमनीयानीत्यर्थः, अत एव 'पडिरूवा' इति प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपाणि, अथवा प्रतिक्षणं नवं नवं रूपं येषां तानि प्रतिरूपाणि । 'एते भवणवासी' इत्यादि, एते अनन्तरोक्ता असुरकुमारादयो भवनवासिनो यथाक्रमं चूडामणिमुकुटरत्नभूषणनियुक्तनागस्फटादिचित्रचिह्नधराश्च, तथाहि-असुरकुमारभवनवासिनश्च चूडामणिमुकुटरत्नाः, चूडामणि म मुकुटे रत्नं चिह्नभूतं येषां ते तथा, नागकुमारा भूपणनियुक्तनागरुफटारूपचिह्नधराः, सुवर्णकुमारा भूषणनियुक्तगरुडरूपचिह्नधराः, विद्युत्कुमारा भूषणनियुक्तवज्ररूपचिह्नधराः, वनं नाम शक्रयायुधं, अग्निकुमारा मुकुटनियुक्तपूर्णकलशरूपचिह्नधराः, द्वीपकुमारा भूषणनियुक्तसिंहरूप-1 (चिह्न) धराः, उदधिकुमारा भूषणनियुक्तहयवररूपचिह्नधराः दिक्कुमारा भूषणनियुक्तगजरूपचिह्नधराः, वायुकु-19 मारा भूषणनियुक्तमकररूपचिह्नधराः, स्तनितकुमारा भूषणनियुक्तवरवर्द्धमानरूपचिह्नधराः, बर्द्धमानक-शरायसंपुटं। अक्षरगमनिका त्वेवम्-भूषणेपु नागस्फटागरुडवज्राणि येषां ते भूषणनागस्फटागरुडवत्राः, पूर्णकलशेनाङ्कित उप्फे दीप अनुक्रम [२०३-२०४] 11८७॥ ~186
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy