SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------- उद्देशक: [-1, ----------- दारं -1, ------------ मूलं [४६...] + गाथा(१२९) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: सूत्रांक [४६]] गाथा Sae6039300928292908292020902300 | पञ्चवर्णसुरभिमुक्तपुष्पपुञ्जोपचारकलितानि, 'कालागुरुपयरकुन्दुरुक्कतुरुक्कधूवमघमघतगन्धुझ्याभिरामे'इति काला-1 गुरुः प्रसिद्धः प्रवरः-प्रधानः कुन्दुरुकः-चीडा तुरुष्कं-सिल्हकं कालागुरुश्च प्रवरकुन्दुरुक्कतुरुष्के च कालागुरुप्रवरकुन्दुरुकतुरुष्काणि तेषां धूपस्य यो मघमघायमानो गन्ध उद्भूत-इतस्ततो विप्रसृतस्तेनाभिरामाणिमणीयानि कालागुरुप्रवरकुन्दुरुकतुरुष्कधूपमघमघायमानगन्धोद्भूताभिरामाणि, तथा शोभनो गन्धो येषां ते सुगन्धा ते च। ते वरगन्धाश्च-पासाः सुगन्धवरगन्धास्तेषां गन्धः स एण्वस्तीति सुगन्धवरगन्धगन्धिकानि, “अतोऽनेकखरात्" इति इकप्रत्ययः, अत एव गन्धवर्तिभूतानि-सौरभ्यातिशयाद् गन्धद्रव्यगुटिकाकल्पानीति भावः, तथा अप्सरो-13 गणानां संघः-समुदायः तेन सम्यक्रमणीयतया विकीर्णानि-व्याप्तानि अप्सरोगणसचविकीर्णानि, तथा दिच्यानां त्रुटितानाम्-आतोद्यानां वेणुवीणामृदगादीनां ये शब्दास्तैः संप्रणदितानि-सम्यक-श्रोतृमनोहारितया प्रकर्षण सर्वकालं नदितानि-शब्दवन्ति, 'सर्वरत्नमयानि' सर्वात्मना-सामस्त्येन न त्वेकदेशेन रनमयानि समस्तरत्नमयानि वा, अच्छानि-आकाशस्फटिकवदतिखच्छानि, श्लक्ष्णानि-लक्ष्णपुद्गलस्कन्धनिष्पन्नानि श्लक्ष्णदलनिष्पन्नपटवत्, 'लण्हानि' मसूणानि घुण्टितपटवत् , 'घट्ठा' इति घृष्टानीव घृष्टानि खरशाणया पाषाणप्रतिमावत्, 'मट्ठा' इति, मृष्टानि, सुकुमारशाणया पाषाणप्रतिमेच, अत एव नीरजांसि खाभाविकरजोरहितत्वाद् निर्मलानि आगन्तुकमला-1 भावात् निष्पकानि-कलङ्कविकलानि कर्दमरहितानि वा 'निकंकडच्छाया' इति निष्कङ्कटा-निष्कवचा निरावरणा दीप अनुक्रम [२०३-२०४] iharana ~185
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy