________________
आगम (१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------- उद्देशक: [-], ----------- दारं -], ------------ मूलं [४६...] + गाथा(१२९) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूत्रांक [४६]]
गाथा
गम्भीरा-अलब्धमध्यभागा खातपरिखा येषा भवनाना परितस्तानि उत्कीर्णान्तरविपुलगम्भीरखातपरिखानि, खातपरिखानां चायं प्रतिविशेषः-परिखा उपरि विशाला अधः संकुचिता, खातं तु उभयत्रापि सममिति, 'पा-1 गारहालयकवाडतोरणपडिदुवारदेसभागा' इति, प्रतिभवनं प्राकारेषु-सालेषु अट्टालककपाटतोरणप्रतिद्वाराणि-अट्टालककपाटतोरणप्रतिद्वाररूपा देशभागा-देशविशेषा येषु तानि प्राकाराहालककपाटतोरणप्रतिद्वारदेशभागानि, तत्राहालकाः-प्राकारस्योपरि भृत्याश्रयविशेषाः कपाटानि-प्रतोलीद्वारसत्कानि, एतेन प्रतोल्यः सर्वत्र सूचिताः, अन्यथा कपाटानामसंभवात् , तोरणानि प्रतोलीद्वारेषु प्रतिद्वाराणि-स्थलद्वारापान्तरालवर्तीनि लघुद्वाराणि, तथा 'जंतस-18 यग्घिमुसलमुसंढिपरिवारिया' इति यत्राणि-नानाप्रकाराणि शतध्यो-महायष्टयो महाशिला या याः पातिताः सत्यः पुरुषाणां शतानि प्रन्ति मुशलानि-प्रतीतानि मुसण्ढ्यः-प्रहरणविशेषाः तैः परिवारितानि-समन्ततो वेष्टितानि, अत एवायोध्यानि-परेर्योद्धमशक्यानि, अयोध्यत्वादेव च 'सदाजयानि' सदा-सर्वकालं जयो येषु तानि सदाज-1 यानि, सर्वकालं जयवन्तीत्यर्थः, तथा सदा-सर्वकालं गुप्तानि प्रहरणैः पुरुषैश्च योद्धृभिः सर्वतः-समन्ततो निरन्तरं, परिवारिततया परेपामसहमानानां मनागपि प्रवेशासंभवात् , 'अडयालकोटगरइया' इति अष्टचत्वारिंशभेदभिन्नवि-1 च्छित्तिकलिताः कोष्ठका-अपवरका रचिताः-खयमेव रचनां प्राप्ता येपु तानि अष्टचत्वारिंशत्कोष्ठकरचितानि, सुखादिदर्शनात् पाक्षिको निष्ठान्तस्य परनिपातः, तथा अष्टचत्वारिंशभेदभिन्नविच्छित्तयः कृता वनमाला येषु
दीप अनुक्रम [२०३-२०४]
eeseera
~183~