SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [४२] दीप अनुक्रम [१९५] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र- ४ (मूलं+वृत्तिः) पदं [२], |--------------- उद्देशक: [ - ], -- दारं [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः मूलं [ ४२ ] Jan Educator |रशीतिर्नरकावासशतसहस्राणि भवन्ति, तथाहि - रत्नप्रभायां त्रिंशन्नरकावासशतसहस्राणि भवन्ति, शर्कराप्रभायां | पञ्चविंशतिः शतसहस्राणि, वालुकाप्रभायां पञ्चदश लक्षाः, पङ्कप्रभायां दश लक्षाः, धूमप्रभायां त्रीणि लक्षाः, तम:प्रभायामेकं शतसहस्रं पञ्चोनं, तमस्तमः प्रभायां पञ्चेति, सर्वसंख्यया चतुरशीतिर्लक्षा नरकावासानामित्याख्यातं मया शेषैस्तीर्थकृद्भिः (श्च), 'ते णं नरकावासा' इत्यादि, ते नरकावासाश्चतुरशीतिर्लक्षप्रमाणाः सर्वेऽपि प्रत्येक मन्तः-मध्यभागे ( वृत्ता) वृत्ताकारा बहिर्भागे चतुरस्राः - चतुरस्राकाराः, इदं च पीठोपरिवर्तिनं मध्यभागमधिकृत्य प्रोच्यते, | सकलपीठाद्यपेक्षया त्वाघलिकाप्रविष्टा वृत्तत्र्यख चतुरस्रसंस्थानाः, पुष्पावकीर्णास्तु नानासंस्थानाः प्रतिपत्तव्याः, 'अहे खुरण्पसंठाणसंठिया' इति अधो-भूमीतले क्षुरप्रस्येव - प्रहरणविशेषस्य यत्संस्थानम् - आकारविशेषस्तीक्ष्णतालक्षणस्तेन संस्थिताः, तथाहि तेषु नरकावासेषु भूमितले मसृणत्वाभावतः शर्करिले पादेषु न्यस्यमानेषु शर्करामात्र संस्पर्शेऽपि क्षुरप्रेणेव पादाः कृत्यन्ते, 'निबंधयारतमसा' इति तमसा नित्यान्धकाराः- उद्योता भावतो यत्तमः तदिह तम उच्यते तेन तमसा नित्यं सर्वकालमन्धकाराः, त ( अ ) त्रापवरकादिष्वपि तमोऽन्धकारोऽस्ति केवलं वहिः सूर्यप्रकाशे मन्दतमो भवति, नरकेषु तु तीर्थकरजन्मदीक्षादिकालव्यतिरेकेणान्यदा सर्वकालमप्युद्योत लेशस्याप्यभावतो जात्यन्धस्येव मेघच्छन्नकालार्धरात्र इवातीय बहलतरो वर्तते तत उक्तं-तमसा नित्यान्धकाराः, तमश्च तत्र सदाअवस्थितं, उद्योतकारिणामसंभवात्, तथा चाह- 'बवगयगह चंदसूरनक्खत्तजोइसियपहा' व्यपगतः परिभ्रष्टो For Par Lise Only ---- ~ 171~ nary org
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy